पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

ग्राह्यग्राहकैकीभावास्पदं निरूप्य तस्येतरवर्जनेनोपास्यत्वमुपवर्ण्य, तदुपत्तनमुनि विNिG कौषीतक्युपनिषत्प्रकाशिका दश प्रज्ञामात्रा अधिभूतम् । यद्धि(दि) भूतमात्राः न स्युः, प्रज्ञामात्राः न स्युः ; यदि(द्वा) प्रज्ञामात्रा न स्युः, न भूतमात्राः स्युः । न ह्यन्यतरतो रूपं किश्चन सिद्धयेत् ; नो एवैतन्नाना ॥ ६ ॥ तद् यथा रथस्यारेषु नेमिरर्पिता, नाभावरा अर्पिताः, एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः, प्रज्ञामात्राः प्राणेऽर्पिताः ।। ६१ ॥ स्थपादमनोरक्षणाः दश प्रज्ञामात्राश्चान्योन्याधाराः । वागादीन्द्रियाणामभावे नामादिसिद्धेरभावेन वागादिलक्षणप्रज्ञामात्राधीनसिद्धिकत्वात् नामादिभूतमात्राणाम् ; नामादिभूतमात्राणामभावे तद्व्यवहारफलकप्रज्ञामात्राशब्दितेन्द्रियाद्यनिष्पत्तेः । अतो ग्राह्यग्राहकोभयाधीनत्वात् सर्वलोकयात्रायाः नो एवैतन्नाना। नानाशब्दो विनार्थकः । एतत् ग्राह्यग्राहकजातं परस्पराविनाभूतमित्यर्थः । न हि ग्राह्येण विनाकृतं ग्राहकं ग्राहकेण विनाकृतं ग्राह्यं कार्यक्षम भवति । तस्मात् प्रज्ञामात्राशब्दितमपि भृतमात्रान्तर्गतमित्यर्थः ॥ ६० ॥ तद् यथा स्थस्य-प्राणेऽर्पिताः । यथा रथस्य नाभौ रथचक्रमध्यवर्तिसरन्ध्रकाष्ठविशेषे अरशब्दिता अर्पिताः; अत्र नेमिशब्दितं वलयाकारं काष्ठं यथा अर्पितम्-~-एवं प्राणशब्दितपरमात्मनि प्रज्ञामात्राशब्दनिर्दिष्टाश्चेतना अर्पिताः । तेषु च भूतमात्राशब्दितग्राह्यग्राहकजातं सर्वं समर्पितमित्यर्थः । नन्वत्र प्रज्ञामात्राशब्देन, यद्धि भूतमात्रा न स्युः न प्रज्ञामात्राः स्युः यदि प्रज्ञामात्रा न स्युः न भूतमात्राः स्युरिति पूर्ववाक्ये प्रज्ञामात्राशब्दनिर्दिष्टानां वागादीनां दशानामेव ग्रहणमुचितम् । न तु प्रज्ञात्माशया, 'यो वै प्राणः सा प्रज्ञा ' इति व्यवहितकेवलप्रज्ञाशब्दनिर्दिष्ट जीवपरत्वमिति चेन्न -- पूर्ववाक्ये अन्योन्याधाराधेयभावप्रतिपादनदर्शनात् तत्र प्रज्ञामात्राशब्दस्य वागादिपरत्वेऽपि इह दश प्रज्ञामात्रा इति । अत्र एकादशेन्द्रियमध्येऽन्तर्गतस्य त्वगिन्द्रियस्य तद्विषयभूतस्य स्पर्शस्य च मूले त्यक्तत्वात् दशेत्युक्तिः । (६०) प्रकृतोपासनोपास्याकाराणां मध्ये मुख्यप्राणस्य निरूपणं प्रथमं कृत्वा अथ जी परमात्मोपासनरूपमेव कार्यमिति स्वाभिमतव्यक्तये संप्रति तदधिकं परमात्मानमपि सदृष्टान्तं निरूपयितुमारभते तद्यथेति । 'मात्राशब्दः संधातैकदेशपर ' इति श्रुतप्रकाशिका ।। ६१ ॥ R?