पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

, + श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [को. ३. स एष प्राण एवं प्रज्ञात्मा (प्राज्ञ आत्मा) आनन्दोऽजरोऽमृतः॥६२॥ म न साधुना कर्मणा भूयान् । नो एवासाधुना कर्मणा कनीयान्॥६३।। एष ह्येवैनं साधु कर्म कारयति तम् , य'मेभ्यो लोकभ्य उन्निनीपति ।। ६४ ॥ 1. समन्वानुनेषति, पा० 2. उन्निनीषते. शां. प्रज्ञामात्राशब्दनिर्दिष्टस्य भूतमात्राश्रितत्वाप्रतिपादनात् प्राणशब्दितपरमात्माश्रितस्वस्यैव प्रतिपादनात् प्रज्ञामात्राशब्दो जीवपर एव । पूर्ववाक्ये बाधकवलात् प्रज्ञाशब्दस्य मुख्यार्थत्यागेऽपि इह मुख्यार्थत्यागे कारणाभावात् । यथाऽस्मिन् प्रकरणे, ‘यावद्द्यस्मिन् शरीरे प्राणो वसति तावदायुः ', ' अथास्मिन् प्राण एवैकधा भवति', 'एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते' इति त्रिष्वपि वाक्येषु मुख्यप्राणपरमात्मजीवपरत्वेन भिन्नार्थकत्वम् , एवं, 'प्रज्ञेवास्या एकमङ्ग़मुदृढमित्यत्र (मुदृढम् ',) 'न हि प्रज्ञापेता वाङ्नाम किश्चित् प्रज्ञापयेत् ', 'दशैव भूतमात्रा अधिप्रज्ञ' मिति वाक्येषु जीवमनइन्द्रियरूपार्थत्रयविषये दृष्टप्रयोगस्य प्रज्ञाशब्दस्य अर्थोचित्यानुसारेणैवार्थस्य वर्णनीयत्वात् । न चैकवचनान्तप्रज्ञाशब्दनिर्दिष्टस्य जीवस्य बहुवचनान्त- प्रज्ञामात्राशब्देन परामर्शो न युक्त इति वाच्यम् – सद्विद्यायाम् , ' स्वमपीतो भवती' त्येकवचनान्तशब्दनिर्दिष्टस्य जीवस्य, सति संपद्य न विदुरिति बहुवचनान्तशब्देन निर्देशवदुपपत्तेः । एतत् सर्वं श्रुतप्रकाशिकायामिन्द्रप्राणाधिकरणे स्पष्टम् ।। ६१ ।। स एष प्राज्ञ आत्मा आनन्दोऽजरोऽमृतः । प्रज्ञ एव प्राज्ञः । निरुपाधिकसार्वश्याश्रयः । निरुपाधिकानन्दत्वाजरत्वामृतत्वाश्रयः ॥ ६२ ॥ स न साधुना-कनीयान् । पुण्यपापकृतोत्कर्षापकर्षशून्य इत्यर्थः ।। ६३ ।। एष ह्येव - उन्निनीपति । यं पुरुषमेभ्यो लोकेभ्यः ऊर्ध्वं भगवल्लोकं नेतु. मिच्छति, तं पुरुषं भगवल्लोकपाप्तये साधुकर्म कारयति । कर्मणां भगवल्लोकप्राप्त्युपयोगित्वञ्च तद्धेतुभूतविद्याविरोधिपापनिरसनद्वारा ।। ६४ ।। स एष प्राण एव प्रज्ञात्मेति पाठ एव श्रीभाष्य-माध्यान्तराद्यादृतः ; न तु स एष प्राज्ञ आत्मेति । (६२)