पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

. 6 कौषीतक्युपनिषत्पकाशिका १५३ एष ह्येवैनमसाधु कर्म कारयति 'यमधो निनीषति ॥ ६५ ॥ एष लोकपाल एष लोकाधिपतिरेष सर्वेशः ॥६६॥ स म आत्मेति विद्यात् । स म आत्मेति विद्यात् ।। ६७ ।। इति कौषीतक्युपनिषदि तृतीयोऽध्यायः ।। 1. यमेभ्यो लोकेभ्योऽनुनुत्सते । 2. निनीषते. शां. 3. सर्वेश्वरः । एष ह्येवैनमसाधु --- अधोनिनीषति । यं पुरुषमेभ्यो लोकेभ्यः अध: पातयितुमिच्छति, तमसाधु कर्म कारयनि । यथा साधुर्मणां ब्रह्मोपासननिष्पादनद्वारा उन्नयनहेतुत्वम् , एवमसाधुकर्मणाभप्युपासनप्रतिबन्धद्वारा अधोनयनहेतुत्वम् । उक्तञ्च भगवता भाष्यकृता, पापस्य ज्ञानोदयविरोधित्वम् , 'एष एवासाधु कर्म कारयति तं यमयो निनीषति' इति श्रुत्याऽवगम्यते " इति । विवृतञ्च व्यासार्यैः, "कर्मणामुन्नयनहेतुत्वमुपासननिष्पादनरूपमिति तद्विपरीतमधोनयन मुपासनप्रतिबन्धरूपमिति स्फुटतरमवगम्यते " इति ॥ ६५ ॥ एष-सर्वेशः । लोकपालः लोकरक्षकः । अत्र व्यासार्याः, " लोकाधिपतिः लोकस्वामी । सर्वेशः सर्वनियन्ता । ननु 'पा रक्षणे ' इति धातोः पतिशब्दः । तत् कथमत्र शेषिवाचित्वम् ? उच्यते---न हि सर्वत्रावयवशक्तिरेव रूदिशक्तिरित्यस्ति । गमेर्डो इति व्युत्पत्त्या गोशब्दस्य सकलजङ्गमवाचित्वप्रसङ्गात् ; स्थिताया गोः अवाचकत्वप्रसङ्गाच्च । अतः शेषिणि पतिशब्दो रूढः । अन्यथा. वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत' इति पितुः संरक्षके पुत्रे पतिशब्दव्यवहारप्रसङ्गात् ' इत्यूचुः ।। ६६ ।। स म आत्मेति विद्यात् । पूर्वोक्तगुणविशिष्टः स्वान्तर्यामीति प्रतिपत्तव्यः । यद्वा अस्मिन्नेव वाक्ये पूर्वोक्तत्वाष्ट्रहननादिकृतलेपशून्यत्ववक्तृत्वघातृत्वादि- गुणकजीवविशिष्टतया आयुष्टेन्द्रियनिश्श्रेयसहेतुत्वशरोरोत्थापकत्वादिगुणविशिष्टप्राण- एवमुपास्याकारान् सर्वान् क्रमेण प्रदर्श्य तावद्विशिष्टोपासनामेकेन वाक्येन विधत्ते स म आस्मेति विद्यादिति । मामित्यनेन पूर्वमस्मदर्थान्तर्यामिपर्यन्तग्रहणम् ; अन्यथा समनन्तर- गुणानामपि हिततमोपासनकर्मत्वादेरिवानन्वयादिति विशदयितु म आत्मेति विभज्य कथनम् । शरीरात्मभावसंबन्धेनेन्द्रविशिष्टपरमात्मोपासनमेव विधित्सितमिति ध्येयम् ॥ 20