पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

. १५४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [को. ३. विशिष्टतया आनन्दत्वामृतत्वादिस्वरूपेण च विशिष्टस्य स्वात्मत्वेनोपासनं विधीयते । एवंसति अनेकोपासनविधानकृतवाक्यभेदशङ्काया नावकाश इति द्रष्टव्यम् । द्विरुक्ति- रध्यायपरिसमाप्त्यर्था । इदञ्च वाक्यं समन्वयाध्याये प्रथमपादे चिन्तितम्-'प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपारस्स्व ' इत्यत्र मामितिशब्देन प्राणशब्देन च निर्दिश्यमान इन्द्र एव । इन्द्रप्रयुक्तस्य मामितिशब्दस्य तद्विषयत्वावश्यम्भावात् इति पूर्वपक्षे प्राप्ते- उच्यते । “प्राणस्तथाऽनुगमात्" । प्राणः परमात्मा परमात्मत्वसाधकानन्दस्वादि- मत्त्वेन तस्यास्मिन् प्रकरणे अनुगतत्वात् । स एष प्राण एवं प्रज्ञात्मा आनन्दोऽ. जरोऽमृतः' इति [हि !] श्रूयते । “ न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् " । त्वाष्ट्रवधादिना प्रज्ञातजीवभावस्येन्द्रस्य वक्तुः, 'मामेव विजानीही ' ति स्वात्मत्वेनोपदिश्यमानः नेन्द्रात् जीवादधिको भवितुमर्हतीति चेन्न-अस्मिन् प्रकरणे परमात्मसंबन्धिनां धर्माणां बहुत्वमुपलभ्यते । हिततमोपासनकर्मत्वम् , साध्वसाधुकर्मकार- यितृत्वम् , 'भृतमात्राः प्रज्ञामालास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः' इति अचेतनवर्गाधारत्वचेतनवर्गाधारत्वमानन्दत्वमजरत्यममृतत्वं लोकाधिपतित्वम् एवमादयो हि धर्माः परमात्मसंबन्धिन उपलभ्यन्ते । अतो भूयोधर्मानुग्रहायास्य प्रकरणस्य परमात्मपरत्वमेव वक्तव्यम् । तर्हि इन्द्रस्य, 'मामुपास्स्वे' ति निर्देशः कथमुपपद्यत इत्यत्राह- शास्त्रदृष्ट्या तूपदेशो वामदेववत् " । 'य आत्मनि तिष्ठन्नात्मनोऽन्तरः । इत्यादिशास्त्रेण परमात्मानं स्वात्मानं दृष्ट्वा शरीरवाचिनाच्च शब्दानां शरीरिपर्यन्ततां ज्ञात्वा, मामुपास्स्वेत्युपदिष्टवान् । यथा हि साक्षात्कृतस्वात्मभूतपरमात्मतत्त्वो वामदेवः, 'अहं मनुरभवं सूर्यश्चे' ति स्वात्मनि मन्वादिभावमुपदिष्टवान् न हि तत्र मन्वादिभावः स्वस्वरूपगतो वामदेवेनोपदिष्टः; अपितु स्वात्मभूतपरमात्मगतः–तद्वदेवायमुपदेश इति भावः । “जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्" । त्वाष्ट्रवध--वक्तत्वादिजीवलिङ्गानाम् आयु:प्रभुत्वशरीरोस्थापकत्वेन्द्रियाश्रयत्वादीनां मुख्यप्राणलिङ्गानां चोपन्यासः किमर्थ इति चेत्-इन्द्ररूपजीवशरीरक- तया प्राणरूपाचेतनशरीरकतया स्वरूपेण चोपासनार्थ चेतनाचेतनधर्माणां ब्रह्मधर्माणाञ्च कीर्तनम् । त्रिविधञ्चोपासनं प्रकरणान्तरेष्वप्याश्रितम् , यथा तैत्तिरीयके, -