पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतक्युपनिषत्प्रकाशिका अथ चतुर्थोऽध्यायः ॥ गार्ग्यो हवै बालाकिरनूचानः संस्पष्ट आस ॥ १ ॥ सोऽवसदुशीनरेषु सत्त्वमत्स्येषु कुरुपाञ्चालेषु काशीविदेहे- ष्विति ॥ २॥ स हाजातशत्रुं काश्यमेत्योवाच ॥३॥, ब्रह्म ते वाणीति। 'सत्यं ज्ञानमनन्तं ब्रह्मेति स्वरूपेण, · सच त्यच्चाभव दिति भोक्तृभोग्यलक्षणचेतनाचेतनशरीरकतया चोपासनम् । एवमिहाप्युपासनात्रैविध्यं युज्यत इति स्थितम् ॥ ६७ ॥ इति कौषातक्युपनिषततृतीयाध्यायप्रकाशिका । .. गार्ग्यो आस । बलाकस्यापत्यं बालाकिः गोत्रतो गार्ग्यः,- अनूचानः अङ्गाध्यायी । ' अङ्गाध्याव्यनूचानः ' इति स्मृतेः। संस्पष्टः सम्यक् विद्यया प्रख्यातः- एवम्भूतस्सन् आस बभूव ॥ १ ॥ सो-इति । सः बालाकिः उशीनरेषु सत्त्वाचुरमत्स्यदेशेषु कुरुपाञ्चालेषु काशीविदेहेषु उवास (४) उषितवान् । इतिशब्दः प्रकारवचनः । एवञ्जातीयकेष्वन्येष्वपीत्यर्थः ॥ २॥ स उवाच । अजातशत्रुनामानं काशीराजमभिगत्योवाच ॥ ३ ॥ किमिति ? ब्रह्म ते ब्रवाणीति । ४ समन्वयाध्याये चतुर्थपञ्चमे 'जगद्वाचित्वा' दिति सूत्रेण एतत्कौषीतकिश्रुतिगतस्य, 'यस्य वैतत् कर्मेति कर्मपदस्यार्थनिर्धारणात् तदधिकरणं कौषीतकिशालाक्य जातशत्रुसंवादमेव प्राधान्येनाधिकृत्य प्रवृत्तम् ; न तु वृहदारण्यकगतं तम् । स तु, 'अपि चैवमेके ' इति तत्रैव सूत्रखण्डेन स्पृष्टः। अनूचानः अङ्गाध्यायीति । अङ्गिभूतस्वाध्यायाध्ययनमर्थसिद्धम् । (१)