पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [को.. - 1 तं होवाचाजातशत्रुः, 'सहस्रं दद्म' एतस्यां वाचि जनकोजनक इति ह वै जना धावन्ती' ति ॥ ४ ॥ स होवाच बालाकिः, 'य एवैष आदित्ये पुरुषः, तमेवाहमुपासे' इति । ५ ॥ तं होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः । वृहन् (त् ) पाण्डवासाः अतिष्ठाः सर्वेषां भूतानां मूर्धेति वा अहमेत- 1. दद्यात एतस्यां समवादिप्रा. पा. सर्वत्र. तं होवाच-धावन्तीति । एतस्यामेद वाचि निमित्ते गवां सहस्रं प्रयच्छामि । सर्वेऽपि ब्रह्मविदः, जनक एव ब्रह्म शुश्रूषुः दाता चेति जनकस्य समीपमेव धावन्ति । भवांस्तु मत्समीपमागत्य, ब्रह्म ते ब्रवाणीत्युक्तवान् । अनेनैव वाक्येन तोषिता वयं सहस्रं प्रयच्छाम इति भावः ॥ ४ ॥ स - उपास इति । आदित्यमण्डलान्तर्वतिन पुरुष ब्रह्मेत्यहमुपासे । अतः त्वमपि तमेवोपास्स्वति भावः ॥ ५॥ तं ह -- । मा मां प्रति एतस्मिन् आदित्यवर्तिपुरुषविषये संवादं मा कारय । अज्ञाते हि विषये संवादः कारयितव्यः । अयं तु ज्ञात एव । कथमित्यत्राह, बृहन् पाण्डरवासाः सर्वेषां भूतानां मूर्धेति वा अहमेत- जनको जनक इति द्विः प्रयोगेऽविशेषमभिसंहितं दर्शयति जनक एव ब्रह्मा शुश्रूवुःदाता चेति । (४) अब्रह्मज्ञेन बालाकिना आदित्यपुरुषादयः षोडश क्रमेण ब्रह्मत्वेन कीर्त्यन्ते य एवैष आदित्ये पुरुष इत्यादिना । ब्रह्म ते ब्रवाणीत्युपक्रमात् तमेवाहमुपासे इति सर्वत्र ब्रह्मत्वनापासनं विवक्षितम् । अजातशत्रुस्तु यथास्थितब्रह्मवेदित्यात्. तदनभ्युपगमेन मा मैतस्मिन् संवादयिष्ठाः इत्याह । तदर्थश्च मद्विदितार्थसंवादानुकूलव्यापारवान् मा भूरिति । आदित्यपुरुषादितत्त्वं मया सुज्ञातम् । त्वया च तदन्यथा ज्ञातम् । अतः त्वदीयो वादः मदभिमतस्य संवादो न भवति । संवादापेक्षा च अन्यथा गृहीतांशत्यागेन वास्तवांशशिक्षायै भवेत् अपेक्षकस्याज्ञात्वे । अहं तु सम्यग् जानामि । त्वमेव त्वन्यथा गृहीतवानसि । अतो मम संवादसंपत्तये त्वया न व्यापरितव्यमिति भावः। संवाद मा कारयेति । मदर्थस्य संवादः त्वत्तोऽधिमत इति मदुक्तये मा यतस्वेत्यर्थः । अज्ञाते हीति । अत्र वक्तव्य बृहदारण्यकपरिष्कारे द्रष्टव्यम् । यद्वा संवादः संमतिः विषयस्य मया अज्ञातत्वे हि त्वदुपदेशमङ्गीकुर्याम् । त्वच्च मामङ्गीकारवेः । ज्ञातत्वात्तु विपरीतार्थ त्वदुक्तं न संमन्येयेत्यर्थः । (६)