पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१५७ " 1 . " कौषीतक्युपनिषत्प्रकाशिका मुवासे इति॥६॥ स यो हैतमेवमुपास्ते, अतिष्ठाः सर्वेषां भूतानां मूर्धा भवति । स होवाच बालाकिः, 'य एवैष चन्द्रमसि पुरुषः, तमेवाहमुपासे इति । तं होवाचाजातशत्रुः, 'मा मैतस्मिन् संवादयिष्ठाः । सोमो राजा अन्नस्यात्मेति वा अहमेतमुपास इति । स यो हैतमेवमुपास्ते, अन्नस्यात्मा भवति ॥७॥ स होवाचाजातशत्रुः, 'य एवैष विद्युति पुरुषः, तमेवाहमुपासे इति । तं होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः । तेजस्यात्मेति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, तेजस्या'त्मा भवति । ॥ ८॥ स होवाच बालाकिः, 'य एवैष स्तनयित्नौ पुरुषः, तमेवाह मुपासे' इति । तं होवाचाजातशत्रुः, 'मा मैतस्मिन् संवादयिष्ठाः ! शब्दस्यात्मेति वा अहमेतमुपास इति । स यो हैतमेवमुपास्ते, शब्दस्यात्मा भवति ॥९॥ 1. तेजस आत्मा. 2. अहं ब्रह्मोपासे. मुपास ' इति । वैशब्दोऽवधारणे | बृहन् महान् । पाण्डराणि किरणरूपाणि वासांसि यस्य सः पाण्डरवासाः । आदित्यकिरणानां नानारूपत्वात् पाण्डरवासस्त्वमिति द्रष्टव्यम् । बृहदारण्यके बालाक्यजातशत्रुसंवादे बृहत्त्वपाण्डरवासस्त्वे चन्द्रधर्मतया उक्ते ; इह तु आदित्यधर्मतया उक्त इति विशेषः । अतिष्ठाः सर्वमपि कार्यमतिक्रम्य तिष्ठतीति अतिष्ठाः । सर्वेषां भूतानां मूर्धा श्रेष्ठः ॥ ६ ॥ तदुपासनस्यानुरूपं फलमाह स यो-भवति । स होवाच---भवति । अन्नस्य त्राहिमवादिरूपौषधिवर्गस्य । आत्मा । प्रियत्वाद्वा, चन्द्रमसः सर्वरसात्मत्वेन तत्स्वरूपत्वाद्वा, अमावास्यायां चन्द्रस्य सर्वोषध्यनुप्रवेशश्रवणाद्वा चन्द्रस्य अन्नात्मत्वम् ।। ७ ।। तेजस्यात्मा तेजस्विस्वरूप इत्यर्थः : तेजस आत्मेति पाठेऽपि स एवार्थः ॥ ८॥ शब्दस्यात्मा । स्तनयित्नुसहितस्य मेघस्य शब्दप्रधानत्वात् शब्दात्मत्वम् । शिष्टं स्पष्टम् ॥ ९ ॥