पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ को. ४. १५८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता स होवाच वालाकिः, 'य एवैष आकाशे पुरुषः, तमेवाहमुपासे' इति । त होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः । पूर्णमप्रवर्ति ब्रह्मेति या अहमेतमुपासे इति । स यो हैतमेवपास्ते, पूर्यते प्रजया पशुभिः । नो एव स्वयम् । नास्य प्रजा पुरा कालात् प्रवर्तते ॥१०॥ स होवाच बालाकिः, “य एवैष वायो पुरुषः, तमेवाहमुपासे' इति । तं होवाचाजातात्रुः, 'मा मैतस्मिन् संवादयिष्ठाः । इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति । स यो हैतमेवमुपास्ते, जिष्णुर्हवा अपराजिष्णुरन्यतस्त्यजायी' भवति ' ॥ ११ ॥ , , -- , 1. अन्यतस्तज्ज्यायान्-पा. पूर्णत्वविशिष्टोपासनायाः फलम् , पूर्यते प्रजया पशुभिरिति । पूर्णस्वप्रयुक्तनिर्व्यापारवलक्षणाप्रवर्तित्वविशिष्टोपासनायाः फलम् , नो एव स्वयमित्यादि । स्वयमपि, तत्पुत्रपौत्रादिकं वा न शास्त्रानुशिष्टशतायुष्ट्वकालात् प्राक् अस्माल्लोकात् प्रवर्तते । नास्य सन्ततावपमृत्युभवतीत्यर्थः ॥ १० ॥ इन्द्रः ईश्वरः । 'योऽयं पवते एष देवानां गृहाः' इति वयोर्देवलोकत्यप्रसिद्धेः लोकत्वेन वैकुण्ठमादृश्याद्वैकुण्ठत्वम् । मरुनां गणत्वप्रसिद्वेः सेना । जिष्णुः जयशीलः । अपराजिष्णुः अपराजितः । अन्यतस्त्यजायी। अन्यतो भवा अन्यतस्त्याः । शत्रव इति यावत् । तान् जेतुं शीलमस्य । 'सुष्यजातौ इति णिनिः । शिष्टं स्पष्टम् ॥ १ ॥ - पूर्णमप्रवर्तीति । छान्दोग्ये गायत्रीविधायां (३-१२) मोक्षफलकं पूर्णत्वाद्युपासनमकम् । तत्राप्याकाशः प्राक् प्रस्तुतः ; ब्रह्मतुल्यतया कीर्तितश्च । (१०)