पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

. + . कौषीतक्युपनिषत्प्रकाशिका १५९ स होवाच बालाकिः, ‘य एवैषोऽप्सु पुरुषः, तमेवाहमुपासे' इति । तं होवाचाजातशत्रुः, 'मा मैतस्मिन् संवादयिष्ठाः । विषासहिरिति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते विषासहिर्हैवैष' भवति ॥ १२॥ स होवाच वालाकिः, ' य एवैषोऽप्सु पुरुषः, तमेवाहमुपास ' इति । तं होवाचाजातशत्रुः, ' मा मैतस्मिन् संवादयिष्टाः। नाम्नस्त्वात्मेति वा अहमेतमुपासे इति । म यो हैतमेवमुपास्ते, नाम्नस्त्वात्मा भवति । ॥१३॥ इत्यधिदैवतम् । अथाध्यात्मम् ॥ १४ ॥ स होवाच बालाकिः, “य एवैष आदर्शे पुरुषः, तमेवाहमुपासे' इति । तं होवाचाजातशत्रुः, 'मामैतस्मिन् संवादयिष्ठाः । प्रतिरूप इति वा अहमेतमुपास इति। स यो हैतमेवमुपास्ते, प्रतिरूपो हैवास्य प्रजा स्वयमाजायते ; नाप्रतिरूप: ' ।। १५॥

. विषासाहि एष---41.

विपासहिः । सोडुनशक्यः शत्रुभिरि यर्थः । मयितेति वाऽर्थः ।। १२ ।। नाम्नस्त्वात्मा। नामाधिष्ठात्री देवतेत्यर्थः । शिष्ट स्पष्टम् ॥ १३ ॥ इत्यधिदैवतम् । अथाध्यात्मम् । देवतायामुपासनप्रकार उक्तः । आत्मन्युपासनप्रकार उच्यत इत्यर्थः ॥ १४ ॥ प्रतिरूपः । प्रतिबिम्ब इत्यर्थः । अस्य सन्ततावनुरूप एव पुत्रो जायते । नाननुरूपः । प्रतिबिम्बस्य कार्यकारणसंघातलक्षणात्मशब्दिताभन्नत्वादध्यात्मान्तर्ग- तत्वमिति द्रष्टव्यम् ॥ १५ ॥ प्रतिरूपो हैवास्य प्रजेति । बिम्गदिवास्थिती बिम्बौ रामदेहात् तथा परौ' इत्युक्त. रीत्या स्वप्रतिबिम्बवत् स्वप्रजा भवतीत्यर्थः । तत्र शरीरसाम्यमात्रं न विवक्षितम् ; किंतु सर्वाशतः इत्याशयेन अनुरूप एव पुत्रो जायते इत्युक्तम् । (१५)