पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

" , " 1 7 . - श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता स होवाच बालाकिः, ‘य एवैष प्रतिश्रुत्कायां पुरुषः, तमेवाहमुपास' इति । तं होवाचाजातशत्रुः, 'मा मैतस्मिन् संवादषिष्ठाः, द्वितीयोऽनपगम इति का अहमेतमुपास इति । स यो हैतमेवमुपास्ते, विन्दते 'द्वितीयाम् ; द्वितीयवान् भवति' ॥१६॥ स होवाच बालाकिः, ‘य एवैष शब्दः पुरुषमन्वेति, तमेवाह मुपासे' इति । सं होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः, असुरिति या अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, नो एव स्वयम् नास्य प्रजा पुरा कालात् संमोहमेति ॥ १७ ॥ स होवाच बालाकिः, ‘य एवैष च्छायायां पुरुषः, तमेवाहमुपासे इति । त होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः । मृत्युरिति व अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, नो एव स्वयम् , नास्य प्रज पुरा काला प्रमीयते । ॥१८॥ 1. द्वितीयम्-पा. प्रतिश्रुत्कायां प्रतिध्वनौ । द्वितीयः पूर्वशब्दापेक्षया द्वितीयः अनपगमः नापगच्छतीत्यनपगमः । द्वितीयाम् आत्मापेक्षया द्वितीयां भावं विन्दते लभत इत्यर्थः । द्वितीयवान् भवति । पुत्रेण द्वितीयवांश्च भवतीत्यर्थः विन्दते द्वितीयमिति पाठे द्वितीयं पुत्रं विन्दते । अनपगमत्वोपासनाफलमुच्यां द्वितीयवान् भवतीति । नित्ययोगे मतुप् । नित्यं पुत्रसहितो भवतीत्यर्थः ॥१६ पुरुषमन्वेति । गुहादौ पुरुषशब्दानुकारिवर्णात्मकः प्रतिशब्द इत्यर्थः असुरिति वा अहमेतमुपास इति । तादृशशब्दस्य प्राणबललभ्यतया असुरित्युपारं इत्यर्थः । नो-एति। स्वयं वा तत्सन्ततिर्वा अकाले मूर्छा मरणं[वा?] प्राप्नोतीत्यर्थः 1: ॥ १७ ॥ मृत्युरिति वा इति । नीलत्वभयङ्करत्वादिमृत्युसादृश्यात् छायापुरुषर मृत्युत्वेनोपासनमिति द्रष्टव्यम् १८ ॥ प्रतिश्रुत्कायामिति । प्रतिश्रुत्वापदेन प्रतिश्रुज्जनकदिग्ग्रहणं युक्तम् ; श्रुत्यन्त समानप्रकरणे दिक्षू इति श्रवणात् । (१६) ..