पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

१ १६२ श्रीरङ्गरामानुजमुनिविरचितमाष्ययुक्ता कौ. ४. सर्व हास्मा इदं श्रेष्ठयाय यम्यते । ॥ २० ॥ स होवाच बालाकिः, ‘य एवैष दक्षिणेऽक्षन् पुरुषः तमेवाह- मुपासे' इति । तं होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः । नाम्न आत्मा 'अग्नेरात्मा ज्योतिष आत्मेति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, एतेषां सर्वेषामात्मा भवति । स होवाच बालाकिः, 'य एवैष सव्येऽक्षन् पुरुषस्तमेवाहमुपासे' इति । तं होवाचाजातशत्रुः, 'मामैतस्मिन् संवादयिष्ठाः । सत्यस्यात्मा विद्युत आत्मा तेजस आत्मेति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, एतेषां सर्वेषामात्मा भवति ॥ २१ ॥ 1. अमिरात्मा ज्योतिष्ट आत्मेति---पा. मनसो यमत्वम् , श्रैष्ठयाञ्च राजत्वं द्रष्टव्यम् । श्रेष्ठयाय यम्यते । अस्य श्रैष्ठ्याय सर्वमपि भूतजातं यम्यते । यतत इति यावत् ॥ २० ॥ स ह - आत्मा भवति । दक्षिणाक्षिप्रतिबिम्बे नामाग्निज्योतिरात्मत्वदृष्टौ नामाग्निज्योतिरात्मत्वं भवति । सव्याक्षिप्रतिबिम्बे सत्यविद्युत्तेजआत्मत्वबुद्धौ सत्यविद्युत्तेजआत्मत्वं भवति ॥ २१ ॥ भावात् । ननु प्रज्ञाशब्दस्य मनःपरत्वमत्र पूर्वाध्याये दृष्टम् | अतः प्राज्ञ आत्मेति मनोविष्टातृदेवताविशेषो गृह्यताम् । येनेति पदमपि तत्परमेव । प्राज्ञ आत्मेत्यत्र प्रज्ञात्मेत्यपि पाठः स्यात् । बहुत्र तथाश्रवणात् । तथाच सुप्तः येन देवताविशेषेण स्वप्नाय चरति, एष प्राज्ञ आत्मा यः, तमुपासे इत्यर्थोस्तु । एवञ्च स इति पदानध्याहारः, एतेषां पुरुषाणां कर्तेति वक्ष्यमाणवाक्ये अस्यापि पुरुषत्वेन कीर्तनौचित्यश्चेति चेत् -- अस्तु कामम् । प्रकृतभाष्यस्यापि तदर्थपरताय नातीव क्लेश इति । ननु बृहदारण्यके शारीरात्ममात्रं कथितम् ; न प्राज्ञात्मदक्षिणवामाक्षिपुरुषत्रयम् । अतस्तत्रोक्तस्य शारीरात्मन एवं चतुर्था किंचिद्रूपेण विभाग इहाभिपतोऽस्तु । अतो न मनःपरोऽयं प्राज्ञात्मपर्याय इति चेत् - न - अन्यत्रोक्तमेवात्र वक्तव्यमिति नेर्बन्धाभावात् । अस्तु का तमिति पदं येनेति प्रागुक्तमनोविशिशष्टवेषेण जीवपरम् | तन्मनो ब्रह्मोपास इति भाष्यश्च पुरुषविशेषणतया मनसोपि विवक्षादर्शकम्, न तु पुरुषस्योपास्यत्व. कारकमिति । (२०) -