पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतक्युपनिषत्प्रकाशिका १६३ ततो हवालाकिस्तूष्णीमास ॥ २२ ॥ तं होवाचाजातशत्रुः, 'एतावन्नु बालाके' इति ॥ २३ ॥ एतावद्धीति होवाच बालाकिः ।। २४ ॥ त होवाचजातशत्रुः, मृषा वै किल मा 'संवादयिष्ठाः ब्रह्म ते ब्रवाणीति ।। २५ ॥ स होवाच, 'यो वै बालाके एतेषां पुरुषाणां कर्ता, यस्य वैतत् कर्म, स वै वेदितव्य इति ॥ २६ ॥ 1. संवदिशः. पा. तूष्णीमास । उत्तरापरिस्फूर्तेरिति शेषः ॥ २२ ॥ एतवन्नु बालाक इति । हे बालाके ! एतावदेव खलु ते विदितमित्यर्थः 1: ॥ २३ ॥ एतावद्धीति । एतावदेव मे विदितमित्युवाचेत्यर्थः ॥ २४ ।। मृषा वै--। ब्रह्म ते ब्रवाणीति मृषोक्त्या मां मृषैव संवादयिष्ठाः संवाद कारितवानसि । एतावन्तं कालमब्रह्मवाद एव प्रवृत्त इत्यर्थः ।। २५ ।। तर्हि किं तत् वेदितव्यं ब्रह्मेत्यत्राह स होवाच यो वै-वेदितव्य इति । शब्दोऽवधारणे। त्वया ब्रह्मत्वेनोपदिष्टानामादित्यादिपुरुषाणां यः कर्ता = ते यत्कार्यभूताः; किं विशिष्याभिधीयते ; यस्य प्रत्यक्षादिसन्निधापितं चिदचिद्रूपं समस्तं जगत् कर्म कार्यम् --- क्रियत इति व्युत्पत्त्या कर्मशब्दः कार्यवचनः स एवं वेदितव्यः ; न तु त्वदुपन्यस्ता आदित्यादय इति भावः ॥ २६ ॥ मृषा वै किलेति । अज्ञस्त्वं कथमभिज्ञ इव मत्संमतिं प्रतीक्षितवानिति भावः । (२५) एतेषां पुरुषाणां कर्तेत्यनेन सर्व देवस्रष्टुचतुर्मुखग्रहणं मा भूदिति व्यष्टिसमष्टिभूतसर्वप्रपञ्च हेतुपरब्रह्मग्रहणव्यक्तये यस्य वैतत् कर्मेत्युक्तम् । वाशब्दः एतेषां पुरुषाणां कर्तेति वाक्यकृतोपपादनानादरप्रदर्शनार्थः । बालाक्यधिकरणपूर्वपक्षिपक्षे वाशब्दो न युक्तः ; किंतु चशब्दः । पुरुषाणां कर्तेत्युक्तार्थोपपादकपुण्यापुण्यरूपकर्मसत्त्वपरत्वाद् वाक्यस्य । अत एव तत्र, 'पुण्यापुण्यलक्षणं च कर्म यस्ये ' ति श्रीभाष्यम् । यस्य कर्मेत्यस्य यत्समवेतकृतिविषयभूतमित्यर्थः । क्रियमाणं सृज्यमानमेतत् सर्व यस्येत्यन्वये तु जगत् यच्छेषभूतमित्येवं षष्टयः शेषत्वादिविवक्षाऽपि स्यात् । पूर्वोक्तोऽर्थः स्वरसः । (२६) ..