पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

6 १६४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुत्ता कौ. ४. तत उ ह बालाकिः समित्पाणिः प्रतिचक्राम, आयानीति ॥ २७ ॥ तं होवाचाजातशत्रुः, 'प्रतिलोमरूपमेव स्यात् यत् क्षत्रियो ब्राह्मणमुपनयेत् (नयीत)। एहि व्येव त्वा ज्ञापयिष्यामेति ॥ २८ ॥ तं ह पाणावभिपद्य प्रवव्राज ॥ २९ ॥ तौ ह सुप्तं पुरुषमीयतुः ॥ ३० ॥ तत उ ह उपायानीति । उशब्दोऽवधारणे । हशब्दः प्रसिद्धौ । एवमजातशत्रुणोक्तो बालाकिः गताभिमानो, 'नीचादप्युत्तमां विद्याम् , ' आपत्कल्पो ब्राह्मणस्याब्राह्मणात् विद्योपयोगः' इति शास्त्रमनुसृत्य क्षत्रियादप्यजातशत्रोर्विद्यामुपादित्सुः, 'नानुपसन्नाय ब्रह्मोपदेष्टव्यम् ' इति शास्त्रं जानन् समिद्धारहस्तः शिष्यस्सन् , उपगच्छामीति प्रववृते ॥ २७ ॥ प्रतिलोम ज्ञापयिष्यामीति । 'क्षत्रियो ब्राह्मणमुपनयेत् ' इति यत् , तत् विपरीतरूपमेव स्यात् । अतः एहि त्वामुपनयनमन्तरेणैव ब्रह्म विज्ञापयिप्याम्येव ।। २८॥ तं ह-प्रवव्राज । तं बालाकिं पाणौ गृहीत्वा निर्गत इत्यर्थः ।। २९ ॥ तो ह सुप्तं पुरुषमीयतुः। तौ बालाक्यजातशत्रू राजभवने सुप्तं कञ्चित् पुरुषं प्राप्तवतावित्यर्थः । बालाक्यधिकरणभाष्ये, तो ह सुप्तं पुरुषमाजग्मतुः' इत्युदाहृतं वाक्यं बृहदारण्यकगतम् ; नैतच्छास्वागतम् । अत एव तत्र व्यासार्यै:, तौ ह सुप्त पुरुषमीयतुः इति श्रुतिः " इत्युक्तम् ॥ ३० ॥ प्रतिलोमरूपमिति । पण्डितरूपवेदनीयमित्यादावित्र अतिशये रूपप्प्रत्यय अतीव प्रतिलोममित्यर्थः । (२८) प्रवव्राजेति संन्यासे प्रसिद्धमपीह तावदविवक्षया प्रयुक्तम् । (२९) ननु वालाक्यधिकरणस्य कौषीतकिश्रुतिविषयकतायाः प्रागेवोक्तत्वात् तत्र च भगवता भाष्यकृता आजग्मतुरित्येव पठितत्वात् कथम् ईयतुरिति पठित्वा व्याख्यायत इत्यत्राह बालाक्यधिकरणभाष्ये इति । (३०)