पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतक्युपनिषत्प्रकाशिका १६५ तं हाजातशत्रुरामन्त्रयाञ्चक्रे, 'बृहन् (त्) पाण्डरवासः सोमराजनिति ॥ ३१ ॥ स उ ह तूष्णीमेव शिश्ये ॥ ३२ ॥ तत उ हैनं यष्टया चिक्षेप ॥ ३३ ॥ स तत एव समुत्तस्थौ ।। ३४ ॥ 1 .. बृहन् पाण्डरवासः सोमराजन् । 'प्राणो वाव ज्येष्ठः श्रेष्ठश्चे' ति ज्यैष्ठ्यश्रैष्ठयगुणेन प्राणस्य बृहत्त्वात् बृहन्नित्यामन्त्रणम् । पाण्डरवासस्त्वं च प्राणधर्मः । किं मे वासः । इति प्राणेन पृष्ट, 'आपो वासः' इति अपां प्राणवासस्त्वोक्ते : । तासाञ्चापाम् , ' यच्छुक्लम् , तदपाम् ' इति शुक्लवर्णाश्रयत्वात् पाण्डरत्वं युक्तम् । सप्तान्वब्राह्मणे, ‘अथैतस्य प्राणस्याऽऽपः शरीरं ज्योतीरूपमसौ चन्द्रः । इति प्राणस्य चन्द्रसंबन्धप्रतीतेः लक्षणया सोमेति प्राणस्य संबोधनम् । प्राणो वै सम्राट् ' इति श्रवणात् राजन्नित्यामन्त्र्यत इति व्यासार्यैरुक्तम् ॥ ३१ ॥ स उ ह तूष्णीमेव शिश्ये । अनुस्थित एव यथापूर्वमयिष्टेत्यर्थः ।।३२ ।। तत उ हैनं यष्टया चिक्षेप । सुप्तं यष्टया ताडितवानित्यर्थः ॥ ३३ ।। स तत एव समुत्तस्थौ । दण्डताडनादेव समुत्तस्थौ । न तु प्राणनामामन्त्रणादिनेत्यर्थः । प्राणनामभिरामन्त्रणेऽप्यनुत्थानप्रदर्शन प्राणान्यत्वज्ञापनार्थम् । सुषुप्तिदशायाभुपरतव्यापारेभ्यः शरीरेन्द्रियेभ्योऽन्यत्वं सुज्ञानमपि ; तस्यामपि दशायामनुपरतव्यापारात् प्राणादन्यत्वं ज्ञापनीयमिति । प्राणनामभिरामन्त्रणेऽप्यनुत्थानेन दण्डताडनोत्थानेन च जीवस्य प्राणव्यतिरेको दर्शितः ।। ३४ ।। बृहन् पाण्डरवासः सोमराजन् इति । अत्र कर्तव्यो विचार : सर्वः बृहदारण्यक भाष्यपरि कारयोर्द्रष्टव्यः । (३१) यष्टया चिक्षेपेति । 'पाणिनापेवं बोधयाञ्चकारे' ति बृहदारण्यकम् । (३३)