पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता तं होवाचाजातशत्रुः, 'क्वैष एतद्वालाके पुरुषोऽशयिष्ट ? क्वै(क्व वा ए) तदभूत् ? कुत एतदागात् ' इति ॥ ३५॥ तदु ह बालाकिर्न विजज्ञौ ॥ ३६ ॥ तं होवाचाजातशत्रुः, यत्रैष एतद्वालाके पुरुषोऽशयिष्ट, यत्रैतदभूत् , कुत( यत?) एतदागात् ।। ३७ ॥ एवं देहेन्द्रियमनःप्राणव्यतिरिक्तं जीवं प्रदर्श्य ततोऽतिरिक्त परमात्मानं बोधयितुमाह तं होवाच-1 हे बालाके ! एष पुरुषः अशयिष्ट इत्येतत् क्व इति स्वप्नस्थानप्रश्नः । यद्वा, एतच्छब्दः स्वप्नपरः । अशयिष्टेत्येतत् प्रत्ययार्थमात्रपरम् । क्व एतत् स्वप्नमकृतेत्यर्थः । सर्वथा स्वप्नस्थानप्रश्नः । क्व वा एतदभूदिति सुषुप्तिस्थानप्रश्नः एतच्छब्दस्य नपुंसकलिङ्गत्वेऽपि प्रकृतवाचिप्रकृतिस्वारस्यात् प्रकृतपुरुषशब्दितजीवपरः (स्त्वम् !) । ततश्च क्व सुप्तोऽभूदित्यर्थः । कुत एतदागादिति । अलाप्येतच्छनब्दो जीवपर एव । प्रबोधकालीनजीवोद्गमनापादानं किमित्यर्थः । ततश्च जीवस्य स्वप्नस्थानसुषुप्तिस्थानोद्गमनापादानानि पृष्टानि भवन्ति । यद्वा त्रिष्वपि प्रश्नेषु एतच्छब्दः सप्तम्यन्तः । एतस्मिन् काल इत्यर्थः । 'सुपां सुलुक्' इति सुपो लुक् । एतस्मिन् काले क्व स्वाममनुभूतम् ; एतस्मिन् काले क्व सुप्तः; एतस्मिन् काले कुतो निर्गत इति । एवञ्च त्रयाणामपि एतच्छब्दानामैकरूप्यश्च सिध्यति ॥ ३५ ॥ तदु ह बालाकिर्न विजज्ञौ । उत्तरं बालाकिर्न ज्ञातवानित्यर्थः ॥ ३६ ॥ तं होवाचाजातशत्रुः यत्रेत्यादि । उच्यत इति शेषः ॥ ३७ ॥ . स्वप्रमनुभूतमिति पाठे, 'संध्यं स्वप्नं तृतीयं स्थानम्' इति श्रुतिदर्शनात् क्लोबस्यापि साधुत्वं द्रष्टव्यम् । (३५