पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

28 यत्संकल्पात् प्रवृत्तिं चिदचिदुपगतां लौकिकी वैदिकी वा . धत्ते वेद्यं विमुक्त्यै ध्रुवमदृशिपदं द्रष्ट्रनीदृक्षसर्वम् ॥ १२०

पृष्टः श्रीमन् ! विदग्धं त्वविदितपरमत्वत्स्वरूपं बभाषे ___ विस्तारं देवसंख्यापरिगणनविधौ संग्रहञ्चानुपूर्व्यात् । पृष्टो लोक निगद्याऽऽयतनमपि मनोज्योतिषः पूरुषांस्तान् निर्दिश्याष्टावपृच्छन् स्वयमपि तदिदन्देवताः सोऽप्युवाच ।। १२१

तत्रातृप्ते मुनीन्द्रे परिभवितुममुं पीठिकाकृत्यसौ यत् दिग्देवाधारपृच्छामकृत, स रुचिरं तत् समानान्तमुक्त्वा । प्राच्यातृप्तर्विदग्धं श्रितरम ! पुरुषान् अष्ट पूर्वान् निरू(रु)ह्य प्रत्यू(त्यु)याकान्तमन्यं पुरुषमुपनिषद्धोषित त्वामपृच्छत् ॥ १२२

भग्नो ध्वस्तो विदग्धः, कथमपचरितुं ब्रह्मविद्यन्य इच्छेत् ब्रह्मिष्ठस्यावधृत्यै त्वयमनुयुयुजे श्रीश ! संमान्य विप्रान् । सर्वांशैर्वृक्षतुल्ये पुरुष उपगतो मृत्युवृक्णे प्ररोहः रेतस्तज्जं कथं तज्जनकमिति न तत् स्यात् प्ररोहेऽस्य मूलम् ।। १२३

नष्टो वृक्षः समूलः क्वचिदिव पुरुषश्चेत् तदा जन्म मा भूत् धानाजन्मेव वृक्षो भवति जन इति ब्रूत मूलं यदत्र । आनन्दं ब्रह्म दातुर्बहुमतमिति तद्वेदिनो रैरितीत्थं - पृष्ठा जित्वा त्वदिज्यां प्रति जनकगवीः श्रीधराय जहार ।। १२४

पित्राऽऽदिष्टो न युक्तं हरणमननुशिष्येति सम्राजमेत्य __ श्रीमन् ! आकर्ण्य दृष्टीस्तव तदवगताः भिन्नभिन्नोपदिष्टाः । वाचि प्राणेऽक्ष्णि कर्णे मनसि हृदि ततोऽशिक्षयत् ताः स पूर्णं वागाद्याक्रान्तलोकाखिलवशनफलाः, तन्न मेनेऽनुशिष्टम् ।। १२५

कूर्चान्नीचैर्गतेऽस्मिन् नतवत्ति जनके याज्ञवल्क्योऽन्वशासत् 'विद्या एता यदर्थाः यदिह गतिवहं तत् समाकर्णनीयम् ।