पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतक्युपनिषत्प्रकाशिका १६७ हिता नाम हृदयस्य नाड्यो हृदयात् पुरीततमभिप्रतिष्ठन्ति' । यथा [च] सहस्रधा केशस्यापि पातः तावदण्व्यः पिङ्गलस्याणिम्ना तिष्ठन्ते शुक्लस्य कृष्णस्य पीतस्य लोहितस्येति । तासु तदा भवति ।। ३८॥ 1. प्रतन्वन्ति। 2. केशो विपाटितः. स्वमस्थानप्रश्नं प्रतिवक्ति हिता नाम तदा भवति । आत्मनो हितावहत्वात् हिता इति प्रसिद्धाः हृदयसंबन्धिन्यो नाड्यः हृदयात् पुरीततं पुरीतदाख्यं हृदयान्तर्वर्तिमांसपिण्डविशेषमभिप्रस्थिता भवन्ति । हृदये पुरीतति नद्धा भवन्ति । ततश्च यथा केशस्यापि सहस्रधा पातः अतिसूक्ष्मः, तावदण्व्यः तथा अण्व्यः सूक्ष्माः पिङ्गळस्य शुक्लस्य कृष्णस्य पीतस्य लोहितस्य अन्नपीतादिरसस्य अणिम्ना लेशेन पूर्णाः तिष्ठन्ति । अतिसूक्ष्मत्वात् लेशेनापि पूर्णाः भवन्ति । तासु नाडीषु तदा स्वप्नकाले आश्रितो भवतीत्यर्थः ।। ३८ ॥ . आसु तदा भवतीति । ननु जीवातिरिक्तपरमात्मप्रतिबोधनार्थं प्रवृत्तेन अजातशत्रुणा कैतदभूदित्यादि पृष्ट! व्याख्यानं क्रियताम् । स्वप्नस्थानं किमिति प्रथमप्रश्नः तद्विवरणश्च व्यर्थम् ; परमात्मनः सुप्तानाधारत्वात् , नाडीनामेव तथात्वात् परमात्मनिरूपणे तदनुपयोगादिति चेत् --- उच्यते । य एतेषां पुरुषाणां कर्ता यस्य वैतत् कर्मे 'त्यनेनैव जीवविलक्षणे ब्रह्मणि उपदिष्टे सिद्धे सुषुप्त प्रतिबोधनाद्यर्वा प्रवृत्तिरेव किमर्थेति विचारणीयम् । तदुच्यते । बालाकिः स्वोपासितान् पुरुषान् कीर्तयन् शारीरं पुरुषं जाग्रतं सुप्तश्च पृथक्पृथक् निर्दिदेश । सुषुप्तं तु विजहौ । तेनायं मन्यते-जाप्रतः पुंसः सुप्तोऽन्यः, व्याघ्रवराहाद्यनेकाभिमानशालित्वात् सुप्तस्य । मन्यते हि स्वप्ने, व्याघ्रोऽहम् , वराहोऽहम, महाराजोऽहम् , महाबाह्मणोऽहमित्येवम् । सुषुप्तिकाले तु जीवस्य लीनत्वात् श्वासप्रश्वासरूपेण तदाऽवस्थितः प्राण एवं सुषुप्त: स्यादिति तस्य पुरुषत्वाभावादेव सुषुप्तो न गणनीय इति । अतोऽयं बालाकिः प्रतिबोधनीयः, 'एक एवाऽऽत्मा जागरस्वप्नसुषुप्तीरनुभवति स्थानभेदेन । न च सुषुप्तः प्राणः । तथासति प्राणनामभिरामन्त्रणे स उत्तिष्ठेत् । न चैवम् ' इति । तत्र, 'यत्रैतत् सुप्तोऽभूत् , य एष विज्ञानमय' इति जाग्रत्सुप्तैक्यं दर्शितम् । जागरस्थानापेक्षयाऽतिरिक्तं नाडीस्थानं प्राप्य स एव स्वप्नमनुभवति । परमात्मानं प्राप्य सुषुप्तिमित्युपदिष्टं भवति । (३८) . , . .