पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

+ . १६८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता (कौ. ४. यदा सुप्तः स्वप्नं न कथश्चन ' पश्यति, अथास्मिन् प्राण एवैकधा भवति । तदैनं वाक् सर्वैनामभिः सहाप्येति ; चक्षुः सर्वै रूपैः सहाप्येति; श्रोत्रं सर्वैः शब्दैः सहाप्येति ; मनः सर्वै ध्यानैः सहाप्येतीति ॥ ३९ ॥ स यदा प्रतिबुध्यते, यथा - अग्नेर्विस्फुलिङ्गाः विप्रतिष्ठेरन् , एवमेवैतस्मादात्मनः प्राणाः यथायतनं विप्रतिष्ठन्ते । प्राणेभ्यो देवाः । देवेभ्यो लोकाः ॥ ४०॥ 1. कञ्चन. 2. ध्यातैः. 3. अग्रेज्वलतो विस्फुलिङ्गाः. सुषुप्तिस्थानपश्नस्योत्तरमाह यदा सुप्तः--सहाप्येतीति । सुप्तः-वर्तमाने क्त:-स्वपन् सन् यदा उपरतस्वप्नदर्शनो भवति-यदाशब्दानुरोधात् तदाशब्दोऽध्याहर्तव्यः-अथ स्वप्नानन्तरं असिन् प्राणे प्राणशरीरके परमात्मनि एकधा भवति । एकधाभावो नाम -- जाग्रदाद्यवस्थाजनितदेहात्माभिमानकृतरागद्वेषादिलक्षणकालुष्या- दिराहित्येनावस्थानम् । ' सर्वाणि हवा इमानि भूतानि प्राणमेवाभिसंविशन्ति ' इत्यादौ प्राणशब्दस्य परमात्मनि प्रचुरप्रयोगात्, वाजसनेयके समानप्रकरणे, 'य एषोऽन्तर्ह्रदय आकाशस्तस्मिन् शेते' इति आकाशशब्दितस्य सुषुप्त्याधारत्वश्रवणाच्च आकाशप्राणशब्दयोः परमात्मपरत्वमन्तरेणाविरोधासंभवात् , 'सता सोम्य तदा संपन्नो भवति', 'सति संपद्य न विदुः', प्राज्ञेनात्मना संपरिष्वक्तः' इति परमात्मनः सुषुप्त्याधारत्वस्य श्रुत्यन्तर(रे!)श्रवणाच्च प्राणशब्दो योगेन वा अपर्यवसानवृत्त्या वा ब्रह्मपरः । परमात्मनो बुद्धिस्थत्वात् अस्मिन् इति निर्देशोऽप्युपपद्यते । अथ (तदा?) तदुत्तरक्षण एवं परमात्मानम् अपियन्तं जीवं वागादीन्द्रियाण्यपि तत् | स्वकार्येण सहापियन्तीत्यर्थः । नामशब्दो नामाभिलपनपरः । रूप-शब्दशब्दौ तज्ज्ञानौपयिकव्यापारपरौ । रूपशब्दादीनां सुषुप्तौ लयासंभवात् । इन्द्रियव्यापारोपरतेरेव सुषुप्तिशब्दार्थत्वात् ॥३९॥ उद्गमनापादानप्रश्नस्योत्तरमाह स यदा--लोकाः। जीवप्रबोधदशायां अग्नेर्विस्फुलिङ्गा इव एतस्मात् परमात्मनः प्राणशब्दिता जीवाः यथास्थानं प्रस्थिता भवन्ति । तेभ्यश्च देवशब्दितानि इन्द्रियाणि, एतेभ्यश्च लोकशब्दितानि ज्ञानानि भवन्तीत्यर्थः ॥ ४० ॥ यथाग्नेरिति । अत्र, 'यथाग्नेर्ज्वलतः सर्वा दिशो बिस्फुलिङ्गाः इति श्रीभाष्यपाठः । (४०) , -