पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौपीतक्युपनिषत तद्यथा क्षुरः क्षुरधाने 'अवहितः स्यात् , विश्वम्भरो वा विश्वम्भर- कुलाये, एवमेवैव प्राज्ञ आत्मा इदं 'शरीरमात्मानमनुप्रविष्टः आ लोमभ्यः आ नखेभ्यः॥४१॥ तमेतमात्मानमेते आत्मानोऽन्ववस्यन्ति ॥४२॥ यथा श्रेष्ठिनं स्वाः ॥४३॥ 1. धाने हितिः. 2. शरीरमनुप्रविष्ट . , , तद् यथा क्षुरः आ नखेभ्यः । क्षुरो धीयतेऽस्मिन्निति क्षुरधानं क्षुरकोशः । तस्मिन् यथा क्षुरः अवहितः पिहितप्रविष्टः, - विश्वं बिभर्ति वैश्वानराग्न्यादिरूपेणेति विश्वंभरोऽमि: - तस्य कुलाये नीडे ..~, एवमेवैष परमात्मा इदं पुरोवर्तिशरीरम् आलोमभ्यः आ नखेभ्यः, व्याप्त इत्यध्याहारः । व्याप्त्या आत्मानं जीवात्मानमनुप्रविष्टः अन्तर्यामितयाऽनुप्रविष्ट इत्यर्थः। तादृशस्य सुषुप्त्याधारत्वोद्गमनापादानत्वे संभवत इति भावः । यद्वा इदं वाक्यं जीवशरीरपरमेव व्याख्येयम् । आत्मानमिदं शरीरम् आत्मत्वेनाभिमन्यमानमिदं शरीरम् आलोमभ्यः आनग्वेभ्यः जीवरूपेण प्रविष्ट इत्यर्थः ।। ४१ ।। तमेतमात्मानमितर आत्मनोऽन्ववस्यन्ति । एतादृशं परमात्मानम् इतरे जीवाः अन्ववस्यन्ति अनुवर्तन्ते ॥ ४२ ॥ तत्र दृष्टान्तमाह यथा श्रेष्टिनं स्वाः । यथा श्रैष्ठयवन्तं स्वाः ज्ञातयः अनुवर्तन्ते ॥ ४३ ॥ अवहितः अधस्तात् निहितः, अन्तर्हित इति वा । शरीरमात्मानमित्युक्तयोर्भेदात् उभयोः अनुप्रविष्ट इत्यत्रान्वयायोगात् शरीरं व्याप्त आत्मानगनुप्रविष्ट इत्यध्याहारेण प्रथमयोजना। (४१) श्रेष्ठयवन्तमिति । श्रेष्टिपदं वैश्ये रुढं तदर्थविवक्षयाऽप्यन्वयमर्हति । अथापि तथा विशेषग्रहणे कारणाभावात् श्रैष्ठधवन्तमित्यर्थवर्णनम् ! (४३) 22