पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

, -- तद् यथा श्रेष्ठी .. १७० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [कौ. ४. तद् यथा श्रेष्ठी स्वैर्भुङ्क्ते, यथा श्रेष्टिनं स्वाः भुञ्जते--एवमेवैष प्रात्र आत्मा एतैरात्माभिर्भुङ्क्ते । यथा श्रेष्ठी स्वैः, एवं वा एतमात्मानोऽन्ववस्यन्ति ।। ४४ ॥ स यावद्ध वा इन्द्र एतमात्मानं न विजज्ञौ, तावदेनमसुरा अभिबभूवुः । स यदा विजज्ञौ, अथ हत्वाऽसुरान् विजित्य सर्वेषां देवानां श्रैष्ठयं स्वाराज्यमाधिपत्यं परीयाय । सर्वान् पाप्मनोऽपहत्य सर्वेषां भूतानां श्रैष्ठयं स्वाराज्यमाधिपत्यं तद् यथा श्रेष्ठी यथा कश्चित् प्रभुः भोगापकरणभूतैः स्वैर्ज्ञातिभिः भोगान् भुक्ते, यथा स्वाश्च बन्धवः तं प्रभुमैश्वर्यादिसमग्रमनुभूय तदत्तानि वित्तादीनि चोपजीव्य हृष्यन्ति-एवमेवायं परमात्मा स्वोपकरणभूतैर्जीवात्मभिर्लीलारसं भुङ्क्ते । ते चात्मानः परमात्मदत्तभोगोपकरणाः सर्वैश्वर्यादिगुणविशिष्टं तमनुभूय हृष्टा भवन्तीत्यर्थः । यथा वा स्वाः श्रेष्ठिनं भुञ्जन्तीति पाठे, यथा प्रधानपुरुषः स्वकीयैर्भूत्यादिभिः भोगसाधनानि उपहरद्भिः हेतुभिः भोगान् भुङ्क्ते, यथा च भोगसाधनानि उपहरन्तः प्रधानपुरुषं पालयन्ति - एवमित्यर्थः । 'भुज पालने । इति भुजः परस्मैपदित्वादिति ध्येयम् । ईदृशं भोक्तृत्वं जीवद्वारा वा परमात्मनि योजनीयम् ॥ ४४ ॥ स यावत्----य एवं वेद । इन्द्रो ब्रह्मविद्यालाभात् प्रागसुरैः पीडितः इमां ब्रह्मविद्यां लब्ध्वा असुरहननेन विजयी सर्वदेवाधिपत्यं सर्वदेवश्रैष्ठयं स्वाराज्यशब्दिताकर्मवश्यत्वलक्षणं मोक्षं च प्राप। अतोऽन्योऽप्येवंवित् सर्वभूताधिपत्यं सर्वभूतश्रैष्ठयं पापापहतिपूर्वकमकर्मवश्यत्वलक्षणं स्वाराज्यशब्दितं मोक्षञ्च प्राप्नोतीत्यर्थः । तद्यथा श्रेष्ठीति । अत्र, तद्यथा श्रेष्ठी स्वेर्भुङ्क्ते यथा वा स्वाः श्रेष्टिनं भुञ्जन्ति, एवमेवैव प्रज्ञात्मा एतैरात्मभिर्भुङ्क्ते, एवमेवैत आत्मान एनं भुञ्जन्ति' इति श्रीभाष्यपाठः । (४४)