पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतक्युपनिषत् पर्येति, य एवं वेद । य एवं वेद ॥४५॥ ओं वाङ्मे मनसीति शान्तिः । इति ऋग्वेदे कौषीतक्युपनिषदि चतुर्थोऽध्यायः ॥ इति कौषीतकिब्राह्मणोपनिषत् ।। ओं नमो वासुदेवाय । शुभमस्तु . 1 व्यासारैयंस्तु — "सर्वान् पाप्मनोऽपहत्येत्यनेनापहतपाप्मत्वादिगुणाष्टकमुक्तम् । जरादीनामपि पाप्मान्तर्गतत्वात् । उक्तं हि वाक्यकारैः, 'स्युः पाप्मानः कालजरामृत्युशोकादयः संख्यातत्वात् ' इति । स्वाराज्यम् स्वाधीनत्वम् । अतः सत्यकामत्वं सत्यसंकल्पत्वच्चोक्तं भवति। अतः (तत्) स्वाराज्यं संसारिभ्योऽस्य श्रैष्ठ्यरूपम् आधिपत्यम् । अधिपतिः परमात्मा ; 'सर्वस्याधिपतिः' इति श्रुतेः । तत्संबन्धि आधिपत्यम् । गुणाष्टकं हि ब्राह्मसंबन्धितया ब्राह्ममुच्यते, " ब्राह्मेण जैमिनिः" इति । अतो ब्रह्मसंबन्धितया तत्साधर्म्यरूपं संसारिभ्यः श्रेष्ठतारूपं यत् स्वाराज्यम् , तदेतीति श्रुतेरर्थः" इत्युक्तम् । य एवं वेद ?।] अन्योऽपि य एतामुपनिषदं वेद, सोऽपि ईदृशं फलमाप्नोतीत्यर्थः ॥ ४५ ॥ एतत् प्रकरणं समन्वयाध्याये चतुर्थपादे चिन्तितम् । तत्र हि यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत् कर्म स वै वेदितव्यः' इत्यत्र [यः ? ] आदित्यादिपुरुषाणां कर्ता, सत्कर्तृत्वनिर्वाहकञ्च पुण्यपापादिलक्षणं कर्म यस्यास्ति, स वेदितव्य इत्यर्थप्रतीतेः, कर्मशब्दस्य पुण्यपापयोः रूढत्वात् , सुप्तपुरुषागमनयष्टिधातोत्थापनादीनाञ्च जीवलिङ्गत्वात् , 'तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते ' इति वाक्यप्रतिपाद्यभोक्तत्वपरिपाल्यत्वयोर्जीव एव संभवात् जीव एव प्रकरणप्रतिपाद्य इति प्राप्ते उच्यते, जगद्वाचित्वात् " । 'यस्य वैतत्कर्मे । त्यत्र कर्मशब्दस्य यद्यपि पुण्यपापादौ रूढिरस्ति । तथापि चलनेऽपि रूढयविशेषेण रूढ्योः परस्परकलहायमान- अन्योऽपि य एतामिति । इदं य एवं वेदेत्यभ्यास स्यार्थवर्णनमिव । अभ्यासस्य, समाप्त्यर्थत्वं सर्वत्र प्रसिद्धमिहापि संभवति । "