पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

१७२ , , } श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता त्वेनार्थनिर्णयासामर्थ्यात् । एतच्छब्दस्य प्रत्यक्षादिसंनिधापित जगत्परत्वौचित्येन तत्समानाधिकृतकर्मशब्दस्यापि, क्रियत इति कर्मेति व्युत्पत्त्या जगद्वचनत्वमेवोचितम् । ततश्चायमर्थः - त्वदुक्तानामादित्यादिपुरुषाणां यः कर्ता , अन्ततो गत्वा, सर्वमपि जगत् यस्य कार्यम् , स एव वेदितव्यः । ततश्च नात्र जीवस्य प्रसक्तिः । यदि हि पुण्यापुण्यलक्षणकर्मसंबन्धो जीवोऽत्र वाक्ये प्रतिपाद्यः स्यात् - तदा आदित्यादिषु पुरुषवादिनं बालाकिमब्रह्मवादित्वेन प्रत्याख्यातवता अजातशत्रुणा स्वयमब्रह्मण उपदेश्यस्मासंभवात् [असामञ्जस्यं स्यात् ? ] । अतो नायं कर्मशब्दः पुण्यपापवचनः ; अपितु जगद्वचनः । “जीवमुख्यप्राणलिङ्गान्नेति चेत् तद् व्याख्यातम् "। यष्टिघातोत्थापनभोक्तत्वादिजीवलिङ्गात् , ' अथास्मिन् प्राण एवैकधा भवती ति प्राणशब्देन प्राणभृतं निर्दिश्य तत्र करणग्रामस्यैकधाभाव- श्रवणात् , प्राणभृत्त्वस्य जीवलिङ्गत्वाच्च जीव एवात्र प्रतिपाद्यते । न च प्राणशब्दस्य मुख्यप्राण एवार्थः ; प्राणनामभिरामन्त्रणाश्रवणेन मुस्यप्राणव्यतिरिक्तत्वस्य ज्ञापितत्वेन मुख्यप्राणस्य एतत्प्रकरणप्रतिपाद्यत्वासंभवेन प्राणशब्दस्य प्राणसहचरितजीवलक्षत्वस्यैव युक्तत्वात् । ततश्च यष्ट्यादिजीवलिङ्गात् प्राणशब्दसंकीर्तनाच्च प्राणभृत् जीव एवात्र प्रतिपाद्यत इति चेत्-तव्द्याख्यातम् । प्रतर्दनविद्यायाम् , यत्र प्रकरणे ब्रह्मलिङ्गानि चिदचिल्लिङ्गानि चोपलभ्यन्ते, तत्र चिदचिल्लिङ्गानां चिदचिच्छरीरकान्वयसंभवात् चेतनाचेतनशरीरकब्रह्मोपासनं विधीयते । इत्युक्तत्वात् । जगद्वचनत्वमेवोचितमिति । नात्र कर्मपदं जगदित्यर्थकम् ; अप्रसिद्धेः । अपितु जगति एतत्पदेनोक्ते तद्गतकार्यस्वाचि । तथाच भाष्यम् “ कृत्स्नस्य जगतः कार्यत्ववाची' ति । एतच्छब्द एव सर्वजगत्परः । तद्गतकार्यत्वं कर्मत्यनेनोच्यते, सर्वं यस्य कार्यमिति । एवकारेण पुण्यापुण्यपरत्वेऽनौचित्यातिशयो ज्ञाप्यते । तत्पक्षे हि पुरुषाणां कर्तेत्युक्तं कर्तृत्वं जीत्रे अस्वरसम् - पुरुषष्टिसंकल्पाश्रयत्वाभावत; पुरुषोत्पत्तिपर्यवसायिपुण्यादि कर्मकतृत्वस्यैव तत्र सत्यात् । तावदर्थविवक्षायां यस्य स्वैतत्कर्मेति पुनरुक्तं स्यात् । यस्य कर्मेत्येवालमिति एतत्पदवैयर्थञ्च । वाशब्दञ्चानन्वितः चशब्दस्येव व युक्तत्वात् । एवमत्र भाष्ये, 'यद्यपि रूढिरस्ति, तथापि ' इति प्रयोगस्वारस्यात् पुण्यापुण्ययोः रूढावपयनतिसंमतिराविष्क्रियते ; चलने रूढेरावश्यकत्वेन प्रकरणाद्यनुरोधेन कर्मत्वेन रूपेणैव तद्विशेषग्रहणसंभवादिति । प्राणशब्देनेति । अत्र प्रकरणे प्राणनामभिरमन्त्रणरूपं प्राणलिङ्गं प्रथममस्ति । पश्चात् , प्राण एवैकधा भवती' ति प्राणशब्दश्च । तत्र प्रथमस्य आत्मनि प्राणव्यतिरिक्ताज्ञापनार्थता 1 . - "