पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

--

कौषीतक्युपनिषत् इहानन्यथासिद्धजीवलिङ्गमस्ति चेत्---तच्छरीरकब्रह्मोपासनार्थः तन्मध्यवर्तिजीवोपदेशः । अत्र च प्रकरणे उपक्रम एव, ‘मृषा वै मा संवादयिष्ठाः । इति अब्रह्मवादप्रत्याख्यानदर्शनात् पापापहतिपूर्वकस्वाराज्यरूपब्रह्मविद्यैकान्तफलेनोपसंहारात् प्रकरणस्य ब्रह्मपरत्वेन निश्चितत्वात् मध्ये जीवोपदेशस्तच्छरीरकतया ब्रह्मोपासनार्थ इत्यध्यवसीयत इत्यर्थः । " अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके" । यष्टिघातेन जीवसंबोधनं जीवातिरिक्तब्रह्मस्वरूपप्रतिबोधनार्थमिति जैमिनिराचार्यो मन्यते । कुतः ? प्रश्नव्याख्यानाभ्याम्=पश्नप्रतिवचनाभ्याम् । यष्टिघातेनापि जीवप्रतिबोधनानन्तरं, 'वैष एतद्वालाके पुरुषोऽशयिष्ट कैतदभूत् कुत एतदागात् ' इति जीवसुषुत्याधारप्रश्नस्य, 'अथास्मिन् प्राण एवैकधा भवती ' ति पूर्वपक्षिणोऽपीष्टा । तेन प्राणव्यतिरेकसिद्धावपि जीवत्वं न सिद्धयति । अतो द्वितीयग्रहणम् । ननु प्राणशब्दस्य जीवालिङ्गत्वेन वर्णनं पूर्वपक्षीष्टं चेत् , 'जीवलिङ्गानेति चेत् ' इत्येतावदेवालमिति चेत् --- सत्यम् । सूत्रकारः, 'जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासान्नेविध्यात् -इति प्रागुक्त- सूत्रप्रत्यभिज्ञानसंपत्तिसौकर्याय पूर्वपक्ष्याशयं जीवमुख्यप्राणलिङ्गादिति पूर्वशब्दप्रयोगेणानुवदतीति भाव्यम् । न हि प्रागस्य प्रकरणप्रधानप्रतिपाद्यता संभवति, ' तद्यथा श्रेष्ठी' त्याद्युक्तभोक्तृत्वात्मत्वादेरनन्वयात् । जैमिनिराचार्यो मन्यत इति । नन्वत्र पूर्वसूत्रे जीवशरीरकब्रह्मोपासनार्थं जीवोपदेश इति स्वमतं कथयन् सूत्रकारो यदि जैमिनिमतं पश्चात् निर्दिशति, तर्हि कतरदत्र ग्राह्यम् । द्वितीयपादे वैश्वानरविद्यायामग्निशरीरकारमात्मोपासनार्थमग्निशब्द इत्युक्त्वा, ‘साक्षादप्यविरोधं जैमिनिः' इति योगार्थपक्षमुपचिक्षेप। तत्र सूत्रकारपक्षमेवादृत्य, जैमिनिमतप्रदर्शनं संभवदुदाहरणान्तरविषयतत्परिग्रहाभिप्रायेणेति वर्णयामः । न यत्रापि तद्वत् स्थलान्तरे जोवोपदेशस्य जीवव्यतिरेकप्रदर्शनार्थताव्युत्पादनायेह जैमिनिमतोक्तिरिति शक्यं वक्तुम् ; 'अपि चैवमेके' इति प्रकृतस्थल एव जैमिनिमतग्राह्यतायामुपष्टम्भकवर्णनात् । अत्र जैमिनिमतमेव तन्मतमिति चेत् , तर्हि पूर्वसूत्रमिदं सूत्रञ्च, 'तद् व्याख्यात' मिति भाग त्यागेन एकसूत्रतया प्रणेतव्यं भवेत् इति चेत् - उच्यते । अत्र पूर्वसूत्रेण जीवमुख्यप्राणोभयविषयेऽपि विशिष्टोपासनपक्ष उक्तः, अनेन सूत्रेण विशिष्टोपासनमुपेक्ष्य जीवादिव्यतिरेकप्रदर्शनार्थस्तदुपदेश इति पक्षान्तरमुच्यते इति केषांचिन्निर्वाहः इह प्रकाशिकायामादृतः । नन्वेवं कतरन्मतं ग्राह्यमिति शङ्का परिहार्येति चेत् - उच्यते । जैमिनिमतमेवेह सूत्रकरस्यापि गूढमभिमतम् । पूर्वसूत्रेण पक्षान्तरकथनञ्च तस्यापि स्थलान्तरे समादरणीयत्वमस्तीति ज्ञापनाय । वैश्वानराधिकरणे जैमिनिपक्षग्रहणं स्थलान्तरे उपयोगाभिप्रायेण ; इह स्वपक्षग्रहणं तदभिप्रायेणेति विशेषः । तेन चेदृशसमाधानन्य प्रागेवोक्ततया पर्वपक्षः प्रायो नोदियादिति ज्ञाप्यते । तदनन्तरश्च तादृशं -