पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

१७४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [को. ४. समाधानमिहासंभावितमिति पुनः पूर्वपक्षिशङ्कायां प्रकारान्तरेण समाधानं हृद्गतं जैमिनिकण्ठोक्तं प्रदर्श्यते । कथं तदिहासं पावितामिति चेत् -- यत्र जीवादौ परमात्मवाचिशब्दसामानाधिकरण्यादिना परमात्मधर्मान्वयप्रतीतिः, तत्र विशिष्टविवक्षा । इह तु, 'क्वैष तदाऽभूत् कुत एतदागात्', 'एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते' इति व्यधिकरणनिर्देश एव लक्ष्यते । अतो विशिष्टोपासनमसंभावितमिति । एवं सूत्रद्वयेन पक्षद्वयनिर्देशश्च अधिकरणसारावल्यामपि दर्शितः .. इत्थं जीवातिरिक्ते प्रकरणनियते तत्र यज्जीवमुख्य- प्राणाख्यानं न तेन क्षतिरिह च तथा तद्विशिष्टेप्युपासा । प्राणस्य प्राणभाजोऽप्यधिकरणतया वाजिवाक्योक्तरीत्या ब्रह्मज्ञप्त्यै तदन्यप्रकथनमिति हि स्थापना सार्वभौमी ॥” इति । अत्र श्लोके पूर्वार्धन विशिष्टोपासनमुक्त्वा तद्विवरणमेवोत्तरार्धेन क्रियते । वाजिवाक्यम् अन्तर्यामि ब्राह्मणम् । तृतीयपादे, 'ब्रह्मोच्यते' इति शेषः । तथाच अन्तर्यामिश्रुति रीत्या इह प्राणजीवविशिष्टतया ब्रह्मोच्यत इति तदर्थः । एवं ब्रह्मज्ञप्त्यै तदन्यप्रकथनात् प्रतर्दनविद्यायामिवेहापि विशिष्टोपासनसंभवात् एषा स्थापना सार्वभौमीति चिन्तामणिव्याख्यानुसारेणार्थः । चिन्तामणौ यथावस्थितवाक्यभ्रंशात् तत्रतत्र वाक्यान्तरप्रक्षेपशङ्कया अविश्वसनीयत्वमाशय्य प्रवृत्तायां पदयोजनायां पूर्वार्धे विशिष्टोपासनरूपमेतदधिकरणद्वितीयसूत्रप्रमेयमुच्यते ; तृतीय- सूत्रप्रमेयमुत्तरार्धे । वाजिवाक्यं तावत् 'अपि चैदमेके' इति सूत्रखण्डविवक्षितं वाक्यम् ; न त्वन्तर्यामिब्राह्मणम् । तथाच तत्र प्राणजीवकथनं प्राणजीवाधिकरणतया तदन्यभूतं ब्रह्मेति ज्ञापनार्थम् । अयमत्कृष्टः परिहार इति तदर्थ इत्युक्तम् । तत् सिद्धम् एवमाद्यनुरोधादत्र, जीवोपदेशः तच्छरीरकनब्रह्मोपासनार्थ इत्यध्यवसीयते' इति वर्ण्यत इति । अत्रेदं बोध्यम् - श्रीभाष्ये द्वितीयसूत्रस्य जीवविशिष्टमयोपासनतात्पर्यकत्वं नैव भाषि- तम् । प्राणशरीरकब्रह्मोपासनमिह प्रकरणे संभवतीति तेन सूत्रेण कथ्यत इति पुनर्भाष्यसूक्तिमापाततः पठन्तः सर्वे संमन्येरन् । वस्तुतः सूक्तिशैलीमवदधानैरिदं सुज्ञानम् , यत् द्वितीयसूत्रभाष्यम् “तत्परतया वर्णनीयानीति" इत्यन्तेन समाप्तम् ; ततः, प्रातर्दने ही" त्यादि " इत्यत्राहे" त्यन्तं तृतीयसूत्रावतरणभूतमिति । अतश्च प्राणशरीरकतया ब्रह्मोपासनमपि न भाष्यकृता द्वितीयसूत्रविवक्षिततया कण्ठोक्तम् । किन्तु तृतीयसूत्रोत्थानोपयोगिशङ्काकृन्मुखेन संभवमात्रेणाऽऽविष्कृतमित्येतदेव । जीवविशिष्टोपासनं तु नतराम् । तर्हि द्वितीयसूत्रप्रमेयं किमिति चेत् -न विशिष्टोपासनं वाक्यविवक्षितमिति तत्प्रमेयम् ; किन्तु ब्रह्मपरत्वस्य प्रकरणे निश्चितत्वात् जीवादिलिङ्गं भूयमाणमपि तच्छेषतया नेयमित्येतदेव । तदेव भाषितम् । तत्परतया वर्णनीयानी" ति । अत्र च श्रुतप्रकाशिका, न तूपासनायत्वमप्यति- देष्टव्यमिति भावः" इति । अथ च, शेषतया वर्णनं नाम विशिष्टोपासनपरतया वर्णनान्नाधिकं --