पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौषीतक्युपनिषत् . . भवेदिति कृत्वा तस्य प्रागविषये संभवेऽपि जीवविषये असंभवं विमृशता शङ्कायां क्रियमाणायाम् उपासनातिरिक्तप्रकारेण शेषतया वर्णनमुपपादयितुं तृतीयसूत्रमिति । ननु तर्हि द्वितीयसूत्रे, 'तद् व्याख्यातम् ' इति किमर्थम् ? तद् विहाय द्वितीयतृतीयसूत्रयोरेकसूत्रतया पठनमेव पर्याप्तम् । न च प्रकृतस्थले प्रकारान्तरेण निर्वाहेऽपि उदाहरणान्तरे विशिष्टोपासनामपि भवतीति ज्ञापनार्थं सूत्रभेद इति वाच्यम् – इन्द्रप्राणाधिकरणे विशिष्टोपासनपक्षस्योकत्वात् इह प्रकारान्तरेण निर्वाहे दर्शिते, यत्र यत्संभवः, तत्र तद्ग्रहणमित्यस्य ज्ञायमानतया पृथक्सूत्रवैयर्थ्यात् । अत एव प्राणविषये विशिष्टोपासनसंभवसूचनार्थं पृथक्सूत्रप्रणयन- मित्यपि न मन्तव्यम् -- इन्द्रप्राणाधिकरणमिदञ्च पश्यतां यथासंभवं तत्तद्ग्रहणस्य स्वतसिद्धेरिति चेत् --- उच्यते । इन्द्रप्राणाधिकरणे, ‘उपामाविध्यात् ' इत्युपासनपरतया निर्वाहस्य तत्र संभवाभिप्रायेण कथनेऽपि तदधिकरणस्य विशिष्टोपासनेनैव निर्वाहवर्णने न तात्पर्यम् ; किन्तु यत्र यथा संभवति तत्र तथा शेषतया निर्वाहवर्णन एवेति ज्ञापनार्थमेव, तद् व्याख्यातम् इति पठित्वा पृथक्कृतम् । अत्र संभवन्निर्वाहप्रकारोपपादनार्थञ्च तृतीयसूत्रम् | 'अन्यार्थ तु' इत्यस्यायमाशयः-प्रकणस्य जीवपरत्वं शङ्कमानेन यथा तत्र प्राणनामभिरामन्त्रणादेः प्राणलिङ्गस्य प्राणातिरिक्ततया जीवज्ञापनपरत्वमाशय्यते, तथा ब्रह्मपरत्ववादिना जीवलिङ्गस्य जीवातिरिक्त. ब्रह्मज्ञापनपरत्वं हि सुवचमिति । एवञ्च, 'अथास्मिन् प्राण एवैकधा भवतीति वाक्यम् अस्मिन् इति प्रकरणिने परमात्मानं ब्रुवत् परमात्मनिष्ठे मुख्यप्राणे एकधाभावपरं वा, प्राणभृति एकधाभावपरं वा, प्राणशरीरके परमात्मनि एकीभावपरे वा, 'प्राणस्य प्राण' मित्युक्तरीत्या पुष्कलप्राणनव्यापाराश्रये परमात्मनि एकीभावपरं वेति विमर्शे, अत्र स्वप्नोद्गमनयोरिव सुषुप्तावेकधाभावस्यास्य जीवकर्तृकताया एवं स्वरसतः, 'यदा सुप्तः स्वप्नं न कथञ्चन पश्यती ति वाक्यतश्च सिद्धत्वात् करणग्रामस्थैकधाभावो नात्र वर्णत इति जीवकर्तृक एकीभावोऽयं परमात्मन्येवेनि निश्चये जाते, प्राणशरीरकारमात्मपरत्वमप्यौचित्यादुपेक्षितुं युक्तम् । समानप्रकरणे बृहदारण्यके, ‘य एषोन्तर्हदय आकाशस्तस्मिन् शेते' इत्यत्र आकाशशब्दो न हि भूतकाश विशिष्ट परमात्मवाची, भूताकाशे जीवशयनाभावात् । किन्तु आ-समन्तात् काशत इत्युक्तपरमात्मवाची । तद्विहापि प्राणशब्दो न मुख्यप्राणविशिष्टवाची ; मुख्यप्राणे जीवस्यैकीभावाभावात् । किन्तु प्राणनव्यापारविशिष्टपरमात्मवाचीति पर्यालोचनसंभवात् । अस्मिन् प्राण एवेत्यस्य अस्मिन्नेव प्राणे, न तु मुख्याप्राणे अन्यत्र वेत्यर्थः । प्राणनप्रदे परमात्मनि सुषुष्टत्वादेवायं जागरप्रयासायासपरिहारं लभत इति भावः । अस्तु तावदिदे कथमपि। सूत्रभाष्ययोराशयस्तावत् प्रागुक्तो धार्यः । एवं तद् व्याख्यात' मिति इन्द्रप्राणाधिकरणाति देशकरणात् इदमधिकरण तदुपरि अधिकाशङ्कथा प्रवृत्तमित्यपि सूच्यते । अधिकाशङ्कापरिहारप्रकारौ च श्रुतप्रकाशिकायां दर्शितो, “प्रतर्दनविद्यायामुपक्रमे जीवलिङ्गावगमः । महावाक्यस्वारस्यं तु परमात्मपरत्वे। इह तूपक्रमोपसंहारमध्येषु जीवलिङ्गावगमात् अत एव परमात्मनः चिदचिद्वशिष्टतापरत्वाभावेनोपासात्रैविध्याप्रतिपतेः