पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

१७६ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता कौ. ४. परमात्मवाचिप्राणशब्देन प्रतिवचनदर्शनाच्च जीवातिरिक्तब्रह्मप्रतिबोधनशेषतयैव जीवोपन्यासः । न तु तस्यैव शेषितया । ननु, 'क्वैतदभूदित्येतच्छब्देन न जीवोऽभिधीयते ; येन तत्प्रतिपादनं परमात्मप्रतिपत्तिशेषभूतं स्यात् । अपि तु एतच्छब्देन करणजातमभिधीयते । एतत् करणजातं सुषुप्तौ क्व लीनम् ; प्रबोधदशायां कुत उत्थितमिति प्रश्नः अथास्मिन् प्राण एवैकधा भवतीति प्राणशब्दनिर्दिष्टे प्राणभृति लय इति प्रतिवचनतात्पर्यञ्च किं न स्यादिति चेत् , तत्राह, चैत्रमेके " | एके = वाजसनेयशाखिनः प्रश्नपतिवचनयोः जीवसुषुप्त्याधारविषयत्वं स्पष्टमामनन्ति । य एष विज्ञानमयः पुरुषः कैष तदाभूदिति, ‘य एषोन्तर्हृदय आकाशस्तस्मिन् शेते ' इति च । अतो जीवप्रतिपादनस्य परमात्मप्रतिपादनशेषत्वात् परमात्मैवात्र प्रकरणे प्रतिपाद्यः ; न जीव इति स्थितम् ॥ ४५ ॥ " अपि प्रातर्दनन्यायानवकाश इत्यधिकाशका। त्रिविधोपासनाभावेपि जीवातिरिक्त ब्रह्मबोधनरूपप्रयोजनसंभवादस्त्यवकाश इत्यनन्तरसूत्रे विवक्षितोऽधिकः परिहारः" इति । दर्शितभाष्यस्वारस्यश्रुतप्रकाशिकाग्रन्थानुरोधेन च अन्यत्, वाक्यजातं नेयम् । नन्वेवं विशिष्टोपासनपरत्वं द्वितीयसूत्रे न विवक्षितश्चेत् – अधिकरणसारावल्यां तद्वर्णनं कथम् - उच्यते । बहुषु तालकोशेषु अत्र श्लोके द्वितीयः पाद एवं पठ्यते, प्राणाख्यानं न तेन क्षतिरिह न तथा तद्विशिष्टेऽप्युपासा" इति । व्याख्यानेष्ठदृष्टोऽपि बहुतालकोशरक्षितः नव्घटितः पाठः समुचितो न सहसा प्रतिक्षेपमर्हति । तदयमर्थ:-जीवापेक्षयोत्कृष्टे परमात्मनि प्रकरणार्थतया स्थित सति जीवमुख्यप्राणाख्यानं स्थितमपि न क्षतिकरम् | तावता इन्द्रप्राणाधिकरणोक्तरीत्या जीवविशिष्टोपासन विवक्षितमिति न मन्तव्यम् । तथा = स्वरूपेणोपासनवत् प्रातर्दनोपसनवच्च तद्विशिष्टेऽप्युपासा नेह भवति । किन्तु वाजिवाक्ये आकाशादिपदघाटते जीवस्य ब्रह्माधारकत्वं यथोक्तम् , तथेहापि प्राणजीवाधारतया ब्रह्मज्ञापनार्थमेव तत्कथनम् । अन्तर्यामिब्राह्मणोक्तरीत्या प्राणजीवाद्याधारतायाः ब्रह्मणि सत्त्वात् तद्रूपेण ब्रह्मज्ञापनार्थमेव प्राणजीवकथनमिति इन्द्रप्राणाधिकरणार्थस्थापना चेत् क्रियते, सा सार्वभौमी हि । प्रतर्दनविद्याभूमाविव बालाकि विद्याभूमावपि सा सुखमवतरतीति । श्लोके प्राणस्येत्यादि स्थापनेसन्तमिन्द्रप्राणाधिकरणार्थस्थापनापरम् । वाजिवाक्यपदं चिन्तामणिग्रन्थ इवान्तर्यामिब्राह्मणपरम् । सार्वभौमीति प्रकृताधिकरणविषयवाक्येऽपि तदति देशसंभव उच्यत इति । एवञ्च द्वितीयसूत्रस्य विशिष्टोपासनपरतयाऽत्र योजनं क्रियमाणं यथाश्रुतानुसारिबहुग्रन्थविमर्शे औदासीन्येन सुखग्राह्यार्थमात्रसंग्रहदृष्टयेति ॥