पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

24 १२८ इन्धोऽसौ दक्षिणेऽक्ष्णि प्रविलसति विराडस्य पत्नी च वामे बुध्यस्वैताविति त्वां सततसहचरीं श्रीनिधे! ते श्रियञ्च ॥ १२६

सौधे हृत्कर्णिकायां श्रितरम ! नयनात् जालकप्रावरान्तः हृद्यम्रे भोगभाजौ विविधगतिहितानेकनाड्यूर्ध्वनाड्याम् । लक्ष्मीश्च त्वां चरन्तौ तनुधरविसजातीयभोगौ अचिच्चि- द्वैजात्यात् 'नेति नेती ' त्यवगतिविषयौ प्राह तस्याभयार्थम् ।। १२७

ज्योतिःप्रश्नेऽन्यदा तत् श्रितरम ! कथयन् बुद्धसुप्तान्तभोगा- __ वृत्ति जीवे सुषुप्ते नरमुखविधिपर्यन्तदूरप्रमोदम् | संश्लिष्य त्वां निविष्टं हृदि वृषगिरिवत् स्वस्थतां शोकहीनां मृत्त्वा त्वन्नीतलोकश्रितफलपुनरावर्तनञ्चाभ्यधत्त ।।

निष्कामस्यत्र चाह त्वदनुभवरसं कर्मविद्योभयस्या- प्यत्याज्यत्व परेषां भयमिह जननेऽवश्यविज्ञेयतां ते । देवैर्ध्यानं तवैव त्वदपृथगुदयेप्वेषु नानात्वबुद्धौ अन्योपास्तौ च बन्धं श्रितरम ! दहरोपासनेऽत्राप्यभितिम् ॥ १२९

तारं प्रस्तुत्य पूर्व हृदयमथ दयादान्तिदानेरकत्वात् श्रीमन् ! तादृक्प्रजापत्युपमितम् अपि यन्नामवर्णस्त्र्यस्य । विज्ञानञ्चार्थवत् तत् हृदयमवयतो ब्रह्म सत्यं त्वमेवे- त्याम्नायः प्राह लोकेष्विह जयम्, अपि सत्योक्तिवर्णार्थमाह ।। १३०

छान्दोग्योक्तप्रकारात् चिदचिदुभययन्त्रुच्यसे श्रीश ! सत्यम् सौरे ते मण्डलेऽक्षिण्यपि वदति मिथस्संप्रतिष्ठे स्वरूपे । तारार्थं भूर्भुवःस्वःपदगमितशिरबाहुपादौक्तरूप- द्वन्द्वे त्वेकेन, नाम्नाऽप्यहरहमिति या ध्यायतस्त्वाञ्च मुक्तिम् ॥ १३१

शाण्डिल्याद्यैरुपास्य ! श्रितवृषशिखरिन् ! पाप्मनो वि (प्मनस्त्व) द्यसीनि प्राप्तो विद्यत्समाख्यां विविधदृशिपराभीष्टविश्राणनोऽसि ।