पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१७७ कोषीतक्युपनिषत् क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः । वामागमाध्वगवदावदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम् ।' इति कौषीतक्युपनिषत्तुरीयाध्यायप्रकाशिका । इति श्रीमत्ताताचार्यचरणारविन्दचञ्चरीकस्य वात्स्यानन्तार्यपादसेवा- समधिगतशारीरकमीमांसाभाष्यहृदयस्य परकाल- मुनिपादसेवासमधिगतपारमहंस्यस्य श्रीरङ्गरामानुजमुनेः कृतिषु कौषीतकिब्राह्मणोपनिषत्प्रकाशिका संपूर्णा ॥ श्रीरस्तु ।। श्रीमते रङ्गरामानुजमहादेशिकाय नमः सचन्द्रलोकमोगोक्ता मुक्तिः पर्यङ्कविद्यया । ऐहिकामुग्मिकश्लिष्टा मुक्तिः प्रातर्दनीगता ॥ केवला मुक्तिरन्ते च प्रोक्ता बालाकिविद्यया । मुख्यप्राणस्य साक्षस्य मध्ये वैभवमीरितम् ।। इत्थमीशाद्युपनिषत्परिष्कारविधायिना । वेदान्तलक्ष्मणाभिख्ययोगीन्द्राङ्गचञ्चसेविना ।। रङ्गलक्ष्मणयोगीन्द्राल्लब्धवेदान्तसंपदा । विविधग्रन्थनिर्माणसिद्धसाधुप्रसत्तिना ।। वीरराघवसंज्ञेन वात्स्यसचक्रवर्तिना। कौषीतकिश्रुतिशिरःपरिष्कारः क्रमात् कृतः ॥ इति वात्स्यसचक्रवर्तिवीरराघवाचार्यकृतः कौषीतक्युपनिषद्भाष्यपरिष्कारः श्रीमते हयवदनपरब्रह्मणे नमः श्रीरस्तु || शुभमस्तु ॥ 23