पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः श्रीभूमिनीलासमेतश्रीनिवासपरब्रह्मणे नमः ।। मन्त्रिकोपनिषत् । [ पूर्णमद इति शान्तिः ।] [ भद्रं कर्णेमिरिति शान्तिः?] हरिः ओम् अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम् । श्रीमते रामानुजाय नमः येनोपनिषदां भाष्यं रामानुजमतानुगम्। रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् || श्रीरङ्गरामानुजमुनिवरविरचिता मन्त्रिकोपनिषत्प्रकाशिका । अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रिया। अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ॥ व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि । मन्त्रिकोपनिषव्द्याख्यां करवाणि यथामति ।। अष्टपादं -- पश्यति । त्रीणि वर्त्मानि यस्य सः त्रिवर्त्मा। सत्त्वरजस्तमोरूपगुणात्मकवर्त्मयुतं तेजसोहं ब्रह्मप्रकाशाच्छादकं ब्रह्मप्रकाशहन्तारं सर्वतः सर्वतो व्याप्तं [ प्रपञ्चं पश्यन् बहिवलोकयन् जीवः अष्टपादं प्रकृत्यष्टकशरीरकम् ?] शुचिम् अपहतपाप्मानं निरवद्यं त्रिसूत्रं सृष्टिस्थितिसंहारात्मकसूत्रशब्दितक्रियायुक्तम् अणुम् श्री श्रीमद्भयो रङ्गरामानुजमहादेशिकेभ्यो नमः । मन्त्रिकोपनिषद्भाष्यपरिष्कारः योऽधिष्ठाता विपरिणमिताचित् चितो भोजयन् सन् लीलास्वादी निखिलनिगमस्तोमवन्द्योऽखिलात्मा ! षडिंवशस्सन् बहुलगणनागोचरः सर्वहेतुः मुक्तेः सेतुर्भवतु भगवान् माधवोऽयं श्रियै नः ॥ भगवता भाष्यकृता, "चमसवदविशेषात् "(४.४.२.) इत्यधिकरणे निरीश्वरसांख्यनिराकरणाय एतदुपनिषद्वाक्यानामुपात्ततया तदर्थव्यक्तये उपनिषदियमपि दशोपनिषद्भाष्यकारैर्ष्याख्यायि । तत्र " आयर्वणिका अधीयते" इत्युक्त्वात् , अत्रापि मन्त्रोपनिषदं ।