पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

. १८० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ मन्लि. १. विवर्त्मानं तेजसोहं सर्वतः पश्यन्न पश्यति ॥ १ ॥ भृतसंमोहने काले भिन्न तमसि वै खरे अतः पश्यन्ति सत्त्वस्था निर्गुणं गुणगह्वरे ॥२॥ 1. सर्वतः परिपश्यति। 2, अन्तः । अतीन्द्रियम् अव्ययं निर्विकारं हंसं हंसवदाश्चर्यभूतं दीप्यमानत्वाद्वा विवेचकत्याद्वा हंससदृशं परमात्मानं नि ?] | पश्यतीत्यर्थः ।। १ ॥ पुनः कदा पश्यतीत्यत्राह भूत - गहरे। काले कालविशेष भूत- संमोहने भूतानां मोहजनके खरे घोरे तमसि तमोगुणे भिन्ने, अतः परं सत्त्वस्थाः रजस्तमोभ्यामस्पृष्टविशुद्धसत्त्वाः पुमांस निर्गुणं गुणगह्वरे त्रिगुणगुहान्तर्वर्तित्वेऽपि गुणसङ्गकृतदोषशून्यं पश्यन्तीत्यर्थः ॥ २ ॥ अथर्वाणो भृगूत्तमाः इति श्रवणात् उपनिषदियमथर्ववेदीयेति विमृश्यते । यजुर्वेदीयत्वेन तु अष्टोत्तरशतोपनिषत्कोशे गण्यते। उभयत्र वा पठिता स्यात् अष्टपादमित्यादि । अत्र मन्त्रे उत्तरार्धस्य पूर्व व्याख्यानात् अष्टपादमित्यारभ्य सर्वेषां द्वितीयान्तानां पदानां क्रमेण व्याख्यानाभावात् , पूर्वार्धे विशेष्यभूतः परमात्मा; उत्तरार्धे तु प्राकृतप्रपञ्चो विशेष्य इत्याशयोऽवगम्यते । अन्यथा तेजसोहमिति पदार्थः परमात्मनि नान्वेति ; पश्यन्न पश्यतीत्यत्र पश्यन्नित्यस्य कर्मापि किञ्चिन्नोक्तं भवेदित्यभिसंधिः । एवञ्च भाष्ये, पश्यन् न इति पदद्वयव्याख्यानं भ्रष्टम् , अष्टपादमिति प्रथमपदव्याख्यानवत् । अन्यथा, न पश्यती 'ति पाठं विहाय परिपश्यतीति पाठो भाष्याभिमतश्चेत्-पूर्वार्धप्रथमपदमारभ्य क्रमेण व्याख्या कृता स्यात् , द्वितीयमन्त्रावतारिका च, 'पुनः कदा पश्यतीत्येवंरूपा, पूर्वमन्त्रे, न पश्यतीति पाठमभिमतं दर्शयति । तथा पश्यन्नित्यस्य सामान्यतः जीव इत्यर्थसंमतापि सर्व द्वितीयान्तं क्रमेणकविशेष्यकं व्याख्यायेत। सर्वत्र प्रसिद्धश्च पाठः स एव, ‘सर्वतः पश्यन्न पश्यतीति इति ध्येयम् । हंसवदित्युक्तं सादृश्यं विवृणोति दीप्यमानत्वादिति । भूतसंमोहने इत्यस्य तमोविशेषणत्वं भाष्याभिमतम् । ननु तस्य कालविशेषणत्वमपि भवति । 'या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रर्ति भूतानि या निशा पश्यतो मुनेः' इत्युक्तरीत्या सर्वभूतानिद्राकाले रात्रौ योगिभिर्निर्बाधं योगस्य क्रियमाणतया भूतसंमोहनकालपदेन रात्रिग्रहणसंभवादिति चेन्न-दिवाऽपि योगस्य सम्यगनुष्ठानात् रात्रिरूपविशेषग्रहणे प्रमाणाभावात् । उपात्तगीतावाक्येऽपि रात्रिकालरूपार्थस्याभावात् । न हि उत्तरार्धे भूतजागरणकालस्य मुनिं प्रति निशात्वं वस्तुतोऽस्ति । अतस्तत्र न कालः कश्चिदुच्यते। किंतु एकज्ञातमन्यस्याज्ञातमित्येवेति । कालविशेषे इति । सात्त्विकत्यागपूर्वकर्मानुष्ठानमृदितकपायतादशायामित्यर्थः । अत इति पाठे जीवात्मावलोकनानन्तरमित्यर्थः । अन्तरिति पाठे अवलोकितस्य जीवात्मनोऽन्तरित्यर्थः । (२) ,