पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

मन्त्रिकोपनिषत -- अशक्यः सोऽन्यथा द्रष्टुं ध्यायमानः कुमारकैः । विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् ॥ ३॥ ध्यायतेऽभ्यासिता तेन तन्यते प्रेर्यते पुनः । सूयते पुरुषार्थश्च तेनैवाधिष्ठितं (ता!) जगत् ॥ ४ ॥ गौरनाद्यन्तवती सा जनित्री भृतभाविनी । अशक्यः -- कुमारकैः । अन्यथा तमोगुणभाभावे कुमारकैः तमोगुणसंलीनान्तःकरणतया मन्दप्रज्ञैः ध्यायमानोऽपि द्रष्टुमशक्य इत्यर्थः । विकार-ध्रुवाम् । 'अष्टौ प्रकृतयः षोडश विकाराः ' इत्युक्तरीत्या एकादशेन्द्रियपञ्चभूतात्मकषोडशविकारजननीं पञ्चतन्मात्रप्रकृतिमहदहङ्काररूपाष्टप्रकृतिरूपाम् अज्ञाम् अचेतनाम् अजां ध्रुवाम् उत्पत्तिविनाशरहिताम् । एतेषां द्वितीयान्तपदानां पिबन्त्येनामविषमामित्युत्तरेणान्वयः ॥ ३ ॥ ध्यायते --- जगत् । ध्यायते परमात्मना संकल्परूपेण ज्ञायते । अध्यासिता अधिष्ठिता तन्यते विस्तार्यते = स्थूलावस्था क्रियते, समष्टिभूतरूपेण क्रियते ; प्रेर्यते । तेनैव परमात्मना अधिष्ठिता प्रकृतिः पुरुषार्थं पुरुषणामर्थनीयं भोग्यभोगोपकरणभोगस्थानरूपं जगत् सूयते ॥ ४ ॥ गौ -विभोः। जनित्रीत्यनेन समष्टिसृष्टिरुच्यते । भूतभाविनीत्यनेन व्यष्टिसृष्टिरच्यते । अनाधन्तवती आद्यन्तशून्या नित्या तेजोबन्नद्वारा अष्टप्रकृतीति । यद्यप्यस्मन्मते एकतन्मात्रोत्पन्नभूतात् अपरतन्मात्रोत्पात्तस्वीकारात् प्रकृतिद्वादशकप्रसङ्गः-अथापि विकारपदं पाञ्चभौतिकशरीरे उपलभ्यमानभूतेन्द्रियपरम् । तेषामेव विकारे शरीरे दृश्यमानत्वात् । अवशिष्टानि तत्कारणानि चाष्टौ प्रकृतय इति न दोषः । शेष सुबालोपनिषद्भाष्ये । (३) गोण्या वृत्त्या गौरित्युच्यत इति । अजां धुवामित्यत्र अजापदं न छागस्त्रीवाचि । ध्रुवापदसमभिव्याहारवलादेवोत्पत्तिराहित्यरूपयोगार्थस्य स्फुटं प्रतीतेः । 'अजोऽपि सन्वव्ययात्मे'त्यादौ अजपदस्य योगार्थे सुषु प्रसिद्विरप्यस्ति । अत्र एष श्रीभाष्ये चमसाधिकरणे अजामेकामित्यत्र अगीपरत्वं परोक्तं प्रत्याख्यातम् । न तथा गौरिति पदं योगार्थे क्वचित् प्रसिद्धम् । अतो गौणी वृत्तिरिति भावः। (५)