पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

3 १८२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [मन्त्रि. १. सिताऽसिता च रक्ता च सर्वकामदुधा विभोः ॥ ५ ॥ पिबन्त्येनामविषमा'मविज्ञाताः कुमारकाः । एकस्तु पिबते देवः स्वच्छन्दोऽत्र वशानुगाम् ॥ ६ ॥ ध्यानक्रियाभ्यां भगवान भुङ्क्ते ऽसौ प्रसभं विभुः। सर्वसाधारणीं दोग्ध्रीं पीड्यमानां तु यज्वमिः ।। ७ ।। 1. अविषयामविज्ञातां..2वशानुगः. 3. प्रसहत् . 4. पीयमानां. लोहित शुक्लकृष्णरूपयुक्ता ईश्वरस्य सर्वकामदुधा लीलारसदोग्ध्री प्रकृतिरूपा काचन गौरित्यर्थः । कामदोग्धृत्वादिसादृश्यात् गौण्या वृत्त्या गौरित्युच्यते ॥ ५ ॥ पिबन्ति --- कुमारकाः। अविषमां कर्मानुगुणपरिणामित्वादपक्षपातिनीम् अविज्ञाताः स्वात्मभिः देहेभ्यो विविच्याज्ञातास्सन्तः कुमारकाः अल्पप्रज्ञाः पिबन्ति प्राकृतं भोगं कर्मपरवशा अनुभवन्तीत्यर्थः । एकस्तु देवः परमात्मास्वच्छन्दः अकर्मपरवशस्सन् वशानुगां स्वसंकल्पाधीनस्वरूपस्थितिप्रवृत्तिकां तां प्रकृतिरूपां गां पिबते तत्कृतलीलारस भुङ्क्त इत्यर्थः ॥ ६ ॥ ध्यान-विभुः । ध्यानक्रियाभ्याम् ऐक्षत,' 'असृजतेति श्रुताभ्यां सङ्कल्पसर्गादिव्यापाराभ्यामित्यर्थः । भुङ्क्ते तत्कृतलीलारसमनुभवतीत्यर्थः । शिष्टं स्पष्टम् । सर्व-यज्वभिः । सर्वबद्धजीवसाधारणतया फलप्रदाम् , वत्सैः यथा माता क्षीरार्थं पीडिता भुज्यते, एवं कर्मवश्यरात्मभिः भोक्तव्यफलानुरूपं परिणाम्यमानामित्यर्थः । इत्थमेव व्यासार्यैः:, " चमसवदविशेषा" दिति सूत्रे व्याख्यातम् ॥ ७ ॥ सर्वकामदुधेत्यत्र विभोरित्यस्यान्वयात् जीवकामदोहनरूपार्थत्यगेन लीलारसदोग्ध्री त्युक्तम् । जीवैरनुभाव्यतया विमोः कामनाविषयभूतं यद्यत् तस्य सर्वस्य दोग्ध्रीत्युक्तिसंभवेऽपि तत्रतत्र लीलारसस्यापि स्वानुभाव्यस्य सत्त्वात् तद्विवक्षैव युक्तेति भावः । एकस्तु पिबते देवः स्वछन्द इति । न चैवम्, 'ऋतं पिबन्ता वित्यत्र परमात्मन. पानकर्तृत्वाभावेऽपि पाययितृत्वमस्तीत्युपपादनं किमर्थं कृतम् । अत्रोक्तरीत्या पानकर्तृत्वस्यैव संभवादिति वाच्यम्---जीवस्य सुकृतफलभोक्तृत्वम् परस्य तत्कृतभोगदर्शनाधीनलीलारसभोक्तृत्वमित्येवेहाप्युक्त्या सुकृतफलभोक्तृत्वस्य परमात्मन्यभावात् , 'ऋतं पिबन्तौ सुकृतस्ये 'ति जीवानुमान्यतयोक्ते ऋते परानुभाव्यत्वायोगेन पाययितृत्वस्यैव तत्र वक्तव्यत्वात् । (६) -- 1 .