पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

मन्त्रिकोपनिषत् ८३ 3 पश्यन्त्यस्यां महात्मानः' सुपर्णं पिप्पलाशनम् । उदासीनं ध्रुवं हंसं स्नातकाध्वर्यवो जगुः ॥ ८ ॥ शंसन्तमनुशंसन्ति बह्वृचाः शास्त्रकोविदाः । रथन्तरं बृहत् साम सप्त वैध्रस्तु गीयते ॥९॥ मन्त्रोपनिषदं ब्रह्म पदक्रमसमन्वितम् । पठन्ति भार्गवा ह्येते अथर्वाणो भृगूत्तमाः ।। १० ।। इति मन्त्रिकोपनिषदि प्रथमः खण्डः ।। 1. सुवर्ण. वैधैः... ह्यथर्वाणो, पश्यन्ति ---पिप्पलाशनम् । कर्मफलभोक्तारं शोभनपक्षयुक्तपक्षिवत् ज्ञानानन्दादिकमनीयगुणयुक्तं केचन शुद्धान्तःकरणाः महात्मानः पश्यन्ति विविच्य साक्षात्कुर्वन्ति। उदासीनं -- जगुः । तत्समीपवर्तिनम्, 'तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति' इत्युक्तरीत्या कर्मफलाशनशून्यतया उदासीनं ध्रुवं व्यापित्वेन निश्चलं हंस हंसवच्छुद्धमद्भुतं स्नातकाध्वर्यवः-स्नातकव्रतयुक्ताः अध्वर्यवः येषां ते स्नातकाध्वर्यवः समीचीनयाजकानुष्ठापितयज्ञ- विशुद्धान्तःकरणाः जगुः सामभिः स्तुवन्तीत्यर्थः ॥ ८ ॥ शंसन्तं -- कोविदाः । अत्र तमित्यध्याहारः । तं शंसन्तं न स्तुवन्तम् उद्गातृगणं बह्वृचाः ऋग्वेदाध्येतारः शास्त्र कोविदाः अध्यात्मशास्त्रप्रवीणा: होतृमैत्रावरुणादयः अनुशंसन्ति । 'स्तुतमनुशंसन्ती । ति श्रवणादुद्गातृगणैः सामभिः स्तुताः देवताः होतृगणैः ऋग्भिः शंसनीयाः । ततश्च सकलस्तोत्रशस्त्राणि एतद्विषयाण्येवेति भावः । रथन्तरं-गीयते । रथन्तरबृहत्सामादिकं यस्मिन् विषये गीयत इत्यर्थः ।। २ मन्त्रोपनिषदं --- भृगूत्तमाः । पदक्रमसमन्वितं मन्त्रोपनिषदाख्यं ब्रह्म वेदं भृगूणां मध्ये उत्तमा भार्गवाः एते अथर्ववेदाध्यायिनः पठन्तीत्यर्थः । तत- श्वाथर्वशिखाध्यायिभिरेवेयमुपनिषदध्येतव्येत्यर्थः ॥ १० ॥ ॥ इति मन्त्रिकोपनिषत्प्रथमखण्डप्रकाशिका !! 11