पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ मन्त्रि. २. ॥ अथ द्वितीयः खण्डः ॥ सब्रह्मचारिवृत्तिश्च स्तंभोऽथ फलितस्तथा । अनड़ान् रोहितोच्छिष्टः 'पठ्यते बहुविस्तरे ॥१॥ [ कालः प्राणश्च भगवान् मृत्युः शर्वो महेश्वरः । उग्रो भवश्व रुद्रश्च ससुरः सासुरस्तथा ॥ २ ॥ "प्रजापतिर्विराट् चैव पुरुषः सलिलमेव च।] स्मर्यते मन्त्रसंस्कृत्यैरथर्व विहितैर्विभुः ॥ ३ ॥ तं षडिंशकमित्येके सप्तविंशमथापरे । पुरुष निर्गुणं सांख्यमथर्वशिरसो विदुः ॥ ४॥ 1. पश्यन्तो बहुविस्तरम् । 2. कुण्डलिनं सभाष्यकोशे, ३. 3. स्तूयते मन्त्रसंस्तुत्यैः. परमात्मनः सर्वात्मतामाह सब्रह्मचारिवृत्तिश्च-बहुविस्तरे । स्तंभुर्गत्यर्थो हिंसार्थो वा । रोहितोच्छिष्टः । उच्छिष्टोऽवशिष्टः । रोहितश्च उच्छिष्टश्च रोहितोच्छिष्ट..... ! इति यावत् । बहुविस्तरे शास्त्रे यैः पाठ्यते(ये पठ्यन्ते !), ते सर्वेऽपि स एवेत्यर्थः ॥ १ ॥ स्मर्यते - विभुः । मन्त्रसंस्कृत्यैः मन्त्र इति संस्कृतशब्दवाच्यैः । मन्त्रैरिति यावत् । अथर्वविहितैर्मन्त्रैः स एव परमात्मा स्मयत इत्यर्थः ॥ ३ ॥ तं --- विदुः । निर्गुणं सत्त्वरजस्तमोगुणातीतं तमेव परमात्मानं षड्विंशं विदुः] । परमात्मा षड्विंश इत्यर्थः । षड्विंशवादिनाञ्च, कालतत्त्वमेष्वेव विशेषणतया अन्तर्गतमित्यभिप्रायः । सप्तविंशमथापरे कालयार्थक्यवादिन इति भावः ॥४॥ सब्रह्मचारिवृत्तिश्चेत्यादिना ब्रह्मणः सर्ववस्तुसामानाधिकरण्यं प्रदर्श्य, नैतत् वस्त्वैक्यनिबन्धनम् ; किन्तु शरीरात्मभावकृत' मित्युपदेशार्थम् अचेतनातिरिक्तजीवाधिकत्वं ब्रह्मणि ज्ञाप्यते, तं षडिशमित्यादिना । अथर्वशिरस इति । अथर्वोपनिषत्त इत्यर्थः ।