पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

मन्त्रिकोपनिषत - m चतुर्विशतिसंख्यात' मव्यक्तं व्यक्त मुच्यते । अद्वैतं द्वैतमित्याहुस्त्रिधा तं पञ्च' सप्तधा ।। ५ ॥ ब्रह्माद्यं स्थावरान्तश्च पश्यन्ति ज्ञानचक्षुषः । 1. संख्याकं. 2. व्यक्तमेव च. 3. पञ्चधा तथा. चतुर्विशति --- मुच्यते । व्यक्ताव्यक्तरूपतया चतुर्विशतिसंख्यातमपि तदेवात्मतत्त्वमुच्यत इत्यर्थः । तस्यैव ब्रह्मणः अव्यक्तव्यक्तशरीरकत्वादिति भावः । अद्वेतं - सप्तधा । तमेव परमात्मानं चिदचिद्विशिष्टमभिप्रेत्य तस्यैकत्वादद्वैतमित्याहुः, 'एकमेवाद्वितीय ' मित्याद्याः काश्चन श्रुतयः । काश्चन, 'पृथगात्मानं प्रेरितारश्च मत्वे ' त्यादिश्रुतयः विशेषणविशेष्यभेदविवक्षया द्वैतम् । केचित्तु, 'भोक्ता भोग्यं प्रेरितार' मिति चिदचिदीश्वरभेदेन त्रित्वम् । व्यक्ताव्यक्तकालजीवेश्वररूपेण पाञ्चविध्यं केचिदाहुः। तमेव पञ्चधा प़ञ्चभूतात्मकतया, सप्तधा सप्तलोकात्मकतया चाहुरित्यर्थः ॥ ५ ॥ ब्रह्माद्यं द्विजाः ब्रह्मादिस्थावरान्तान्तर्यामिणं व्यापकं चतुर्विंशतिसंख्यातमित्येतत् पञ्चविंशस्य जीवस्याप्युपलक्षणम् । यद्वा पुरुषं निर्गुणं सांख्यमिति जीवात्मकथनम् । अत एव सांख्यमिति विशेषणमपि सार्थकम् । सांख्यशास्त्रे युक्तया साधितमपि वेदादेव प्रतिपद्यन्ते प्रमाणिकाः। तदुक्तम् , ' श्रौतीमेवात्मसिद्धिं श्रोत्रिया: संगिरन्ते' इति । अत एवाथर्वशिरोरूपवेदवेद्यत्वमेवादृत्य सांख्यप्रक्रियासिद्धि निरसनं शारीरके । तथाच चेतनाचेतनाधिकोऽपि चेतनाचेतनवाचिपदसामानाधिकरण्येन व्यपदिश्यत इत्यर्थः । एवमर्धद्वयेन चेतनाचेतनात्मत्वं ब्रह्मण्युक्तम् । एवं पञ्चविंशस्य पुरुषस्य चतुर्विशतेरचेतनानाञ्च व्यक्ताव्यक्तानां प्रदर्शनात् परमात्मनः षडिंशत्वमुपपादितं भवति । पञ्चसप्तधेयस्यैवमप्यर्थो भवितुमर्हति - तत्त्वत्रयवादवत् अर्थपञ्चकवादस्यापि दर्शन पञ्चधा ब्रह्मावस्थितम् । अथवा व्यक्तानां त्रयोविंशतिसंख्यातानां व्यक्तत्वेन क्रीडीकारे व्यक्ताव्यक्तकालजीवपरमात्मरूपेण पाञ्चविध्यम , व्यक्ताव्यक्ताक्षरतमोजीवकालपरमात्मरूपेण साप्तविध्यमिति । एवं प्रकृति नित्यविभूतिकालजीवपरमात्मभेदेन वा प्रकृतिकालजीवधर्मभूतज्ञानपरमात्मभेदेन वा 'पाञ्चविध्यम् ; व्यक्ताव्यक्तनित्यविभूतिकालधर्मभूतज्ञानजीवपरमात्मभेदेन च साप्तविध्यमित्याद्यपि द्रष्टव्यम् । (४.५) ब्रह्माद्यमिति । अत्र मन्त्रे पश्यन्तीति पदस्य द्विः श्रवणात् पूर्वार्धं पृथग्वाक्यम् , तथोत्तरार्धमिति ज्ञायते । तत्र पूर्वार्धेन ब्रह्मणः देहविशिष्टत्मरूपव्यष्टिजीवान्तर्यामित्वमुक्तम् । पूर्वं तु पुरुषमिति चतुर्विंशतीति चार्धाभ्यां शुद्ध चेतनाचेतनान्तर्यामित्वमुक्तमिति विशेषः । 24