पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [मन्त्रि. २. तमेकमेव पश्यन्ति परिशुद्धं 'विभुं द्विजाः ॥ ६॥ यस्मिन् सर्वमिदं प्रोतं ब्रह्म स्थावरजङ्गमम् । तस्मिन्नेव लयं याति स्रवन्त्यः सागरे यथा ॥ ७ ॥ यस्मिन् भावाः प्रलीयन्ते लीनाश्चाव्यक्ततां ययुः । पश्यन्ति व्यक्ततां भूयो जायन्ते बुद्बुदा इत्र ॥ ८॥ क्षेत्रज्ञाधिष्ठितश्चैव कारणैर्भिद्यते पुनः । 1. परिशुभं. 2. क्षेत्राधिष्ठितच्चैव, , परिशुद्धमेकमेवात्मानं ज्ञानचक्षुषः पश्यन्तीत्यर्थः ॥ ६ ॥ यस्मिन्-अत्र ब्रह्मशब्देन जीवजातमुच्यते । स्थावरजङ्गमात्मकमिदं सर्व ब्रह्मवज्जातं (ब्रह्म जीवजातं), यस्मिन् प्रोतं = यत्सङ्कल्पेन धृतम् यदात्मकमित्यर्थः -- तस्मिन्नेव लयं याति । ततश्च उपादानत्वान्तर्यामित्वयो रैकाधिकरण्यमुक्तं भवति । स्रवन्त्यः सागरे यथा। स्रवन्त्यः नद्यः समुद्रे यथा लयं यान्तीत्यर्थः ।। ७ यस्मिन् - बुद्बुदा इव । यस्मिन् आत्मनि भावाः वियदादिपदार्थाः प्रलीयन्ते ; प्रलीनाश्च सन्तः शब्दस्पर्शादिशून्याः पृथगुपलम्मानर्हाः अविभक्तनामरूपाः, ' तमः परे देव एकीभवतीति श्रुत्यनुरोधेनाविभक्ततमोवस्था भवन्ति- तत्रैव परमात्मनि सर्गादिसमये बुद्बुदा इव पुनर्जायन्ते ; व्यक्ताश्च भवन्ति । ततश्च लयाधारस्य परमात्मन एवोत्पत्त्युपादानत्वमिति भावः ॥ ८ ॥ क्षेत्रज्ञ -पुनः । उत्पन्नाश्च महदाद्याः क्षेत्रज्ञविशेषैरधिष्ठिताश्च सन्तः पुनश्च नाशकारणैर्भिद्यन्ते नाश्यन्त इत्यर्थः । एवं - पुनः पुनः । एवं परमात्मा तमेकमित्युत्तरार्धेन तु एवं सर्वान्तर्यामित्वे सत्यपि तत्कृतदोषास्पृष्टत्वरूपो विभवो वर्ण्यते इति वक्तव्यम्। भाष्ये तु पूर्वोत्तरार्धयोरेकवाक्यतादर्शनात् पश्यन्तीति पदमेकमेव स्यादिति, पाठो निरीक्ष्यः । (६) यस्मिन् सर्वमित्यादिना उपादानकारणत्वमुच्यते (७.८)