पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

शान्ते वैश्वानराग्नौ क्रमसमुपगतैर्नीयमानस्त्वदीयो वा वादित्येन्दुमुख्यैरमृतमयभवल्लोकमाप्नोत्यशोकम् ॥ विष्टं ह्यन्ने समस्तं जगदथ रमते प्राण इत्यत्र वि स्यात् ... अन्नं प्राणोऽपि रं स्यादिति विदितवतस्तद्वयस्याप्युपस्तिौ । सर्वैर्भूतैः प्रवेशो रतिरपि पुरुषे तत्र लक्ष्मीश ! किश्च च्छन्दोर्मातुः पदं त्वां क्वचन कथयति श्रीयशोदं तुरीयम् ॥ १३३

गायत्र्येवास्ति जप्या तदवरविभवा स्यात्तु सावित्र्यनुष्टुप् प्राणान् एषा समस्तान् गयपदगमितान् गायतस्त्रायते यत् । त्रींस्त्रीन् अष्टाक्षराणि ह्यभिदधति रमावल्लभ ! त्रीणि लोकान् वेदान् प्राणांश्च यानि, क्रमविहिततदीक्षोऽत्र पादेष्वमुष्याः ॥ १३४

लोकादौ यद्यदेतज्जयति जयकरीं तां तुरीये प्रतिष्ठा- भाजं पादेऽथ सत्येऽक्षिणि तमपि बले प्राण एतच्च मत्वा । सोपस्थानं सहाग्न्याह्वयमुखमनधः स्यात् प्रतिग्राह्यसर्वः प्राप्नोति ध्यानतस्ते सवितरपरनास्त्वां रजःपारवर्तिन् ! ॥ त्वद्दृष्टयावारकं त्वं श्रितरम ! मनसो वारयन् रागबन्धं रूपं ते सौम्यतेजः शुभतममुपसंदर्श्य सर्वान्तरात्मन् ! । क्षुद्रं देहाद्युपेक्ष्य प्रणवमित ! गतं त्वत्पदाब्जं कृतज्ञ ! क्षिप्ताघः सत्पथेन स्थिरपरिचरणानन्दभाजं विधत्से ॥ १३६

श्वेताश्वतरोपनिषत् श्वेताश्वाधाख्यवेदः श्रितरम ! भजनं त्र्यंशकब्रह्मणस्ते ध्यानैतद्देशसिद्धीक्षणकलनविधाः मुक्तयेऽन्याध्वहानिम् । योगान्यादृश्यतामप्युपधिकृतमिथोमेदहान्याऽणुजीवा- ___ नन्त्याविर्भावगाह क्रमत इह निरालम्बमाव्ये प्रपत्तिम् ॥ iv १३७