पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

मन्त्रिकोपनिषत् एवं स भगवान् देवः ' पश्यत्यस्य पुनः पुनः ॥ ९॥ ब्रह्म ब्रह्मन् यथा यान्ति ये विदुर्ब्राह्मणास्तथा । अत्रैव ते लयं यान्ति लीनाश्चाव्यक्तशालिनः ।। लीनाश्चाव्यक्तशालिन' इति ॥ १० ॥ इति मन्त्रिकोपनिषदि द्वितीयः खण्डः ।। इति मन्त्रिकोपनिषत् संपूर्णा श्रीरस्तु 1. देवं पश्यन्त्यन्ये, 2. ब्रह्मेत्यथो, 3.नाव्यक्तशायिनः ? अस्य प्रपञ्चस्य पुनः पुनः उत्पत्तिविनाशावेव पश्यति सङ्कल्पयतीत्यर्थः ॥ २॥ यथा येन प्रकारेण ब्रह्मन् ब्रह्मणि ब्रह्म प्रकृतिजीवभूतं ब्रह्म लयं याति, - यान्तीति वचनव्यत्ययश्छान्दसः तथा ये विदुः, ते अत्रैव ब्रह्मणि लीनाः ब्रह्मणः पृथगव्यक्ता एवं शेरते न कदाचिदपि ॥ १० ॥ इति मन्त्रिकोपनिषद्भाष्ये द्वितीयखण्डप्रकाशिका । इति श्रीमत्ताताचार्यचरणारविन्दचञ्चरीकस्य वात्स्यानन्तार्य- पादसेवासमधिगतशारीरकमीमांसाभाष्यहृदयस्य परकालमुनिपादसेवासमधिगतपारमहंस्यस्य श्रीरङ्गरामानुजमुनेः कृतिषु मन्त्रिकोपनिषत्प्रकाशिका . " संपूर्णा । ॥ श्रीरस्तु॥ एवं स भगवानिति प्रवाहेश्वरपक्षनिरसनेन ब्रह्मणः, भगवद्वासुदेवरूपत्वेन ध्यानक्रियाभ्यां भगवानिति पूर्वमेव दर्शितस्य नित्यैश्वर्यं निरूपितम् । (९) एवं शेरते नेत्येव पाठदर्शनात् ब्रह्मणि लीनाः पश्चात् दृश्यमानरीत्या नाव्यक्तशायिन इत्यर्थः स्यात् । अव्यक्तशालिन इति, अव्यक्तमव्यक्ततामेवं शाडन्ते श्लाघन्ते इति अव्यकशालिनः । शाड श्वाघायाम् । डलयोरभेदात् काश्यपमतमत्र लत्वम् ' इति व्याख्येयम् ।