पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

[मन्त्रि. २. श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता ईशाद्युपनिषदाप्यपरिष्कारविधायिना । श्रीमच्छुत्यन्तसौमित्रिरङ्गलक्ष्मणसेविना ॥ श्रीबीरराघवार्येण वात्स्यसच्चक्रवर्तिना। मन्त्रिकोपनिषद्भाष्यपरिष्कारो व्यतन्यत ।। इति श्रीवात्स्यवीरराघवाचार्यकृतिषु मन्त्रिकोपनिषद्भाष्यपरिष्कारः श्रीरस्तु । शुभमस्तु । मन्त्रिकोपनिषदर्थसंग्रहकारिकाः याजुषी वाऽथर्वणी वा मन्त्रिकोपनिषन्मता । खण्डद्वयात्मना तस्या विभागमपि मन्यते ॥ १ ॥ भगवत्प्रेर्यमाणैव प्रकृतिः परिणामिनी । जीवात्मनां भोगहेतुः तस्य लीलारसप्रदा ॥ २ ॥ सर्वश्रुतिभिरुद्धुष्टः सर्वात्मा च स्तुतः परः । षड्विंशत्वादिना नूनं पृथग् दृश्यो जगन्मयः ।। ३ ।। निमित्तवदुपादानं क्षेत्रज्ञैर्भगवानयम् । परिशुभ्रो ध्यातुमर्हो नित्यैश्वर्य इहोच्यते ॥ ४ ॥ शुभमस्तु