पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः श्रीमते नारायणाय नमः सुबालोपनिषत् । {ओं पूर्णमद इति शान्तिः ।। श्रीः श्रीमते रामानुजाय नमः [ श्रुतप्रकाशिकावक्ते व्यासायास्तु नमरिक्रया। यः संग्रहाय दयया श्रुतदीपमदीपयत् ।।] सुबालोपनिषद्विवरणम् श्रीश्रुतप्रकाशिकाचार्यविरचितम् । विशुद्धविज्ञान विशेषकारणं रजस्तमःकल्मषदोषनाशनम् । सदैव रामानुजपादपङ्कजं स्मरामि नौमि प्रणमामि चादरात् ।। १ । सौबालोपनिषद्धृदि विनिहितमर्थं सुपुष्कलं गहनम् । अनुसन्धीमहि वयमक्लिष्टमृजूपपन्नश्च ।। २ ।। T: श्रीमद्भ्यो रङ्गरामानुजमहादेशिकेभ्यो नमः नारायणादिशिखरेत्र निरीक्ष्यते यो नारायणः कमलयाऽद्भुतमासुबालम् । तं ब्रह्मरुद्रमुखसर्वसृजं सुबालश्रुत्यन्तधुमखिलान्तरमाश्रयामि || श्रीभाष्यादेर्व्याक्रिया सार्वभौमी येषामेषां स्वादुवाचासुधानाम् । व्यासार्याणामेदमस्मद्गुरूणां विख्यातानां वन्दिषीयाङ्घ्रिपद्मम् ॥ उपनिषदो बृहदारण्यकान्ता इव सुबालोपनिषदियमपि सर्वैः समकण्ठमादृता, सर्वजगद्कारणस्य ब्रह्मरुद्रादि कारणत्व-सर्वान्तर्यामित्व-नारायणव-दिव्यैकदेवत्वादिस्पष्टवर्णनेन सर्वाभ्योऽतिशयिता, परं परैरपि न व्याख्याता, साधु व्यावर्तव्येति विभाव्य, श्रीभाष्यदीपवेदार्थसंग्रहादि- व्याख्यानविख्यातवैदुष्यैर्विशदमधुरविशिष्टार्थव्युत्पादकवचस्सुधावर्षणालङ्कमीणैः वेदव्यासापरनामधेयैः श्रीसुदर्शनभट्टारकैर्भाष्यमस्या अभाषि। परं तत् विवरणमस्याः षोडशखण्डात्मकायाः पञ्चमखण्डपर्यन्तमेव सर्वत्र लक्ष्यते । शिष्टोऽप्येतदुपनिद्भांगः श्रीभाष्यादौ एतद्भाष्ये च यथापेक्षमुदाह्रतः, यत्रैव नारायणत्वादि नः प्रतिबोधितमिति सोऽपि सार्थोऽधिगन्तव्यःएव ।