पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप. १. हरिः ओम् --- तदाहुः- किं तदाऽऽसीत् तस्मै स होवाच-नसन्नासन्नसदसदिति । तदाहुरिति । तत् वक्ष्यमाणं वाक्यजातमध्येतारोऽघीयत इत्यर्थः । यद्वा शिष्याचार्यभावेन स्थिताः प्रष्टारः प्रतिवक्तारश्च ब्रह्मवादिन आहुरित्यर्थः । तत्र कस्यचित् शिष्यस्य प्रश्नवचनं दर्शयति किं तदासीदिति । तदा सृष्टेः पूर्वं किं जगत्कारणत्वेनावस्थितमासीदित्यर्थः । तस्मै स होवाच । तस्मै प्रष्टत्वेन प्रकृताय शिष्याय सः प्रष्टव्यतया बुद्धिस्थ आचार्य उवाचेत्यर्थः । हेति पूजायाम् । अत्र प्रष्टा रेक्वः, प्रतिवक्ताऽऽचार्यों घोराङ्गिरा इति व्यक्तीभविष्यति । संक्षेपतः कारणविषयं प्रतिवचनं दर्शयति नसन्नासन्नसदसदिति । तत्र (अत्र ?) सदादिपदानि नगशब्दवत् नशब्देन समस्तानि । नशब्दश्च तदन्यवाची । सच्छन्दः कार्यावस्थचेतनपरः; ' इदं सर्वमसृजत् ' इत्युपक्रम्य, ' सञ्च त्यच्चाभवत् विज्ञानञ्चाविज्ञानञ्चेति कार्यावस्थचेतनविषये सच्छब्दस्य प्रयुक्तत्वात् । असच्छन्दश्च कार्यावस्थाचेतनपरः । कार्यावस्थचेतनविलक्षणं कार्यावस्थाचेतनविलक्षणमुभयात्मकजगद्विलक्षणं परमे व्योम्नि स्थितं परं ब्रह्म कारणमासीदित्यर्थः । ब्रह्मणः परमव्योमसंबन्धो हि वक्ष्यते, 'परस्तान्नसन्नासन्नसदसत् ' इति । अस्य वाक्यस्य सदादिनिषेधमानपरत्वे, 'तस्मात् तमः संजायते इति तच्छब्देन कारणतया कस्यचित् परामर्शायोगात् । किञ्चिदपि नास्ति चेत , तस्मादिति किं परामृश्यते ? सदसदनिर्वचनीयमज्ञानमिति चेत् , तदयुक्तम् । ननु तदाहुरिति प्रष्टृप्रतिवक्तृणां बहूनामुक्तिरुपकान्ता । एवञ्च, किं तदासीत् इति प्रश्नमाहुः, तत्र नसन्नासन्नसदसदिति प्रतिवचनञ्चाहुरिति सुवचम् । तत्र मध्ये तस्मै स होवाचेति कथमित्यत आह अत्र प्रष्टा रैक्व इत्यादि । यद्यप्येवं श्रुत्याशयः स्यात् – 'ब्रह्मजिज्ञासया प्रवृत्ताः सर्वेऽपि प्रष्टारः, किं तदाऽऽसीदित्येव प्रश्नमाहुः । तत्र प्रतिवक्तृणामुक्तिर्भिद्यते, ब्रह्म वा इदमग्र आसीत , आत्मा वा इदमग्र आसीत , एको हवै नारायण आसीत् . असदेवेदमग्र आसीत इत्येवम् । तत्र रैक्वाय प्रष्टे घोराङ्गिरस उत्तरं तु विलक्षणम् नसदित्यादि इति । तथाच आहुरिति प्रश्नमात्रान्वयीति -- तथापि स होवाचेत्येतावदनुक्त्वा तस्मै स होवाचेति वचनात् प्रश्नवाक्यमपि रैक्वैककर्तृकतया व्याख्यातमिति ध्येयम् । उमयात्मकेति । न चैवं नसन्नासदित्युक्तस्यैव नसदसदित्युक्तौ पुनरुक्तता स्यादिति वाच्यम्-- समष्टिकार्थभूतचेतन- तादृशाचेतन-व्यष्टिरूपचेतनाचेतनात्मकजगद्रूपत्रयवैलक्षण्यस्व त्रिभिः पदैर्विलक्षणादपौनरूक्त्त्वात्त् । - . . ,