पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२८४

एतत् पृष्ठम् परिष्कृतम् अस्ति

-- सर्व सुबालोपनिषत तस्मात् तमः संजायते । अस्यामेवोपनिषदि, अपुनर्भावा(भवः) याण्डकोशं भिनत्ती ' त्यारभ्य, ‘मृत्युं भिनत्ति मृत्योर्वे परे देव एकीभवति । परस्तान्नसन्नासन्नसदसत् ' इति देशतः कालतः स्वभावतो वा मुक्तपाप्यत्वकथनायोगात् । ' मृत्युं दहति परस्तान्नसन्नासन्नसदसत' इति ज्ञानाग्निदाह्यात् मृत्योः परत्वाभिधानायोगाच्च । अनिर्वाच्यं हि ज्ञाननिवर्त्य॑मभिमतम् । परस्ताच्छब्दवैयर्थ्याच्च । मृत्योरपि सान्ततया परत्वविशेषणं हि न घटते । 'मृत्योर्वे परे देव एकीभवति परस्तान्नसन्नासन्नसदसत्' इति देशतः कालतः स्वभावतो वा सर्वेश्वरात् परत्वमनिर्वचनीयस्यात्यन्तानुपपन्नम् । जगत्कारणब्रह्मपरत्वे तु मुक्तप्राप्यत्वादिकं सर्वमुपपन्नम् । इतिशब्दः प्रतिवचनसंक्षेपसमाप्तौ । अथ विस्तरेण सृष्टिमाह तस्मात् तमः संजायते इति । तस्मात् सर्वविलक्षणत्वेन प्रतिपादितात् परस्मात् ब्रह्मणः अतिसूक्ष्म प्रधानतत्त्वं संजायते सञ्जातम् । विभक्तमित्यर्थः । ननु पूर्वमविभक्तस्य हि पश्चाद्विभागः । ब्रह्मणः चिदचिद्विलक्षणतया तेन तत्पूर्वमपि अविभागाभावात् विभागोक्तिर्न घटते । न । अस्यामेवोपनिषदि तमोमृत्युशब्दवाच्यस्य सूक्ष्माचिद्वस्तुनः परब्रह्मशरीरस्त्वं वक्ष्यते । अतः तमश्शरीरके ब्रह्मणि कार्योपयुक्तांशस्य प्रळयदशायामविभागो युक्तः । वक्ष्यते, 'तम एकीभवतीति । अतः सर्गकाले विभागोऽप्युपपन्नः । विभागश्च न छित्वा भित्वा क्रियते । अपितु केनचिदाकारेण व्यावृत्तिर्विभागः । परब्रह्मप्रकारभूतकार्योपयोग्यंशस्य कार्यानुरूप्यापत्तिर्विभागः । स च परमात्मप्रेरणाधीनः । परमात्मनोऽचिच्छरीरकत्वं देशतः कालतः स्वभावतो वेति । मृत्यु भिनत्तीति मृत्युभेदनानन्तरं मुक्तप्राप्यत्वमुक्तम् । परस्तादिनि मृत्युनाऽनाक्रान्तदेशे मुक्तप्राप्यत्वमुक्तम् । तदुभयमपि अज्ञानस्य न भवति । अस्तु तावदिदम् , यत् देशतः कालत इति । अज्ञानं मुक्तप्राप्यं नैव भवतीति स्वभावतोऽपि तद्वर्णनायोग एवेत्यर्थः । ननु तमसो भूतादिरित्यादिषूपरितनवाक्येषु संजायत इत्यस्यास्यैत्रानुषङ्गात् तत्रोत्पत्त्यर्थ- कस्यास्य अत्र विभागपरत्वमयुक्तम् । अतः, श्रुतिस्वारस्याच्च तमस्त्वावस्थापन्नमुत्पद्यत इत्येवार्थोऽस्तु इत्यत्राह वक्ष्यते तम एकीभवतीति । अक्षरं तमसि लीयते इत्यन्तं लीयत इति प्रयुज्य, तमः पर इति वाक्ये एकीभवतीति प्रयोगात् तमस्त्वमक्षरत्वादिवत् न प्रहीयत इति प्रतीयते | अतः तमत्त्वावस्थाविशिष्टतयोत्पत्त्ययोगात् विभागरूप एवार्थः प्रथमवाक्ये ग्राह्यः । तत्राचेतनस्य