पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

. -- सुबालोपनिषत् १९३ वायोरग्निरग्नेरापोऽद्भयः पृथिवी । तदण्डं समभवत् । गुणो मतः' इति पराशरोक्तेः । वायोरग्निः अग्नेरापः अद्भयः पृथिवीति । अत्रापि रूपतन्मात्रादग्नेरूत्पत्तिः, रसतन्मात्रादपामुत्पत्तिः, गन्धतन्मात्रात् पृथिव्युत्पत्तिरपि सिद्धा। ततो वायुर्विकुर्वाणो रूपमात्र ससर्ज ह । ज्योतिरुत्पद्यते वायोस्तद् रूपगुणमुच्यते । ज्योतिश्चापि विकुर्वाण रसमात्रं ससर्ज ह । विकुर्वाणानि चाऽम्भांसि गन्धमात्र ससर्जिरे' इति पुरणवचनोपबृंहितत्वात् । वायोरग्निरित्यत्राग्निशब्दः तेजोमात्रपरः । 'आपस्तेजसि लीयन्ते । इति अत्रैव प्रळयवाक्ये तेजश्शब्दश्रवणात् ; 'तत् तेजोऽसृजते । ति श्रुत्यन्तरेकार्थ्यात् ; 'ज्योतिरुत्पद्यते वायोः' इति स्मृतिवचनाच्च । तदण्डं समभवदिति । तच्छब्दः पृथिव्यन्ततत्त्वजातपरः । महदादिपृथिव्यात् तत्त्वजातमण्डात्मना परिणतमभूदित्यर्थः । 'महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते । इति स्मरणात् । ननु ' तन्मात्राणि भूतादौ लीयन्ते इति तन्मात्राणां युगपत् प्रलयश्रवणात उत्पत्तिरपि युगपदित्यवगम्यते । युगपत् उत्पन्नेभ्यस्तन्मात्रेभ्यः परस्परानपेक्षेभ्यः आकाशाद्युत्पत्तिः । अत एव आकाशादीनां न परस्परकारणत्वम् । तथा सति, 'अष्टौ प्रकृतयः षोडश विकाराः' इति विकाराणां षोडशसंख्याकत्वं घटते । अन्यथा आकाशादीनां चतुर्णां प्रकृतित्वेन प्रकृतीनां ?] विकाराणाञ्च द्वादशत्वं स्यात् । तन्मात्राणां युगपदुत्त्पत्यङ्गीकारे लयश्रुत्यनुरोधश्च भवति । आकाशाद्वायुः इत्यादिवाक्येषु आकाशादिशब्दाः पञ्चम्यन्ताः तन्मात्रावस्थाकाशादिभूतपरा इति - अत्रोच्यते-न तावत् तन्मात्राणां युगपदुत्पत्तिः श्रुता। युगपत्प्रलयश्रवणात् कल्पनीयेति चेन्न-प्रळयस्यापि यौगपद्याश्रवणात् । लीयन्त इति हि श्रूयते,न तु न परस्परकारणत्वमिति । वाय्वादीनां साक्षात् आकाशादि कारणकत्वं वा तज्जन्यतन्मात्रादिकारणकत्वं वा नेत्यर्थः । तथासति तत्कारणकत्वाभावे सत्येव । तन्मात्रावस्थाकाशादिभूतपरा इति । ननु तन्मात्रेति शब्दतन्मात्रग्रहणे तज्जन्यत्वं वायोः कथम् । सर्शतन्मात्रग्रहणे तदवस्थत्वमाकाशस्य कथमिति चेत् पूर्वं परस्परानपेक्षेभ्य इत्यनेन वायूत्पत्तौ शब्दतन्मात्रापेक्षा न वार्यते । किंतु सिद्धान्ते स्पर्शतन्मात्रादेः स्वोत्पत्तौ आकाशादिद्वारा शब्दतन्मात्राद्यपेक्षत्वं यत्, तदेव वार्यत इति इह आकाशपदं शब्दतन्मात्रपरमिति । 25