पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

. , श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता [सुबालोप. १. 'युगपल्लीयन्त ' इति । अतः क्रमयोगपद्यसाधारणी इयं श्रुतिः । यथा, 'यतो वा इमानि भूतानि जायन्ते - यत् प्रयन्त्यभिसंविशन्ति', 'यस्मिन्निदं सञ्च वि चैति सर्वम् । इत्यादि । तत्रापि यौगपद्यविवक्षा अस्तीति चेत-महदहङ्कारादितत्त्वानां देवमनुष्यादीनाञ्च प्रमाणान्तरावगतसर्गप्रळयक्रमो बाध्येत । अतो युगपत्प्रळय (या?) श्रवणात् युगपदुत्पत्तिकल्पनं तन्मात्राणामयुक्तम् । न केवलं कल्पकाभावात् युगपदुत्तिकल्पनमयुक्तम् ; बाधकसद्भावाच्चायुक्तम् । न हि श्रुतिक्रमविरोधेन यौगपद्यकल्पनमुपपद्यते । तथा हि --- 'भूतादेराकाशमाकाशाद्वायुः वायोरग्निः' इत्यादिवाक्येषु पञ्चम्यन्तानामाकाशादिशब्दानां प्रसिद्धाकाशादिमात्रपरत्वप्रहाणेन तन्मात्राकाशादिपरत्वमस्वरसम् । स्वारस्यबाधाभावेऽपि क्लिष्टार्थकल्पनमयुक्तम् । प्रथमान्तानां पञ्चम्यन्तानाञ्चाकाशादिशब्दानामर्थवैरूप्यञ्च स्यात् । प्रथमान्तानामपि तन्मात्रपरत्वात् नार्थवैरूप्यमिति चेत् - तर्हि भूतादेः शब्दतन्मात्रमुत्पन्नम् , शब्दन्मात्रात् स्पर्शतन्मात्रमुत्पन्नमित्ययमर्थ उक्तः स्यात् । तदानीमुत्तरोत्तरतन्मात्राणां पूर्वपूर्वतन्मात्रसृष्टत्वात् तेषां यगपदुत्पत्तिर्बाध्येत । तन्मात्रेभ्यः प्रसिद्धाकाशाद्युत्पत्तिः निष्प्रमाणिका च स्यात् ; ' एतस्माज्जायते प्राण: खं वायुर्ज्योतिरापः' इत्यादौ कस्मिंश्चिदपि वेदवाक्ये तन्मात्रेभ्यः खाद्युत्पत्तिश्रवणाभावात् । प्रथमान्तानां शब्दानां तन्मात्रवाचित्वमप्ययुक्तम् ; 'अद्भयः पृथिवी ' इत्यनेन भग्नत्वात् । न हि पृथिवीशब्दो गन्धतन्मात्रपरः अनन्तरवाक्यविरोधात् । तदण्डं समभवत् । इति अस्यामुपनिषदि, अन्यत्र 'पृथिव्या ओषधयः' इत्येवानन्तरं श्रूयते । न हि गन्धतन्मात्रात् अण्डोत्पत्तिरोषधीनामुत्पत्तिश्च भवति । किञ्च युगपदुत्पन्नेभ्यः तन्मात्रेभ्यः पञ्चभूतोत्पत्त्यभ्यपगमे, 'पृथिव्यप्सु प्रलीयते ' इति प्रळयश्रुतिश्च विरुध्यते । पृथिव्याः तत्कारणस्य गन्धतन्मात्रस्य च सलिलकारणकत्वाभावात् । एवम् 'आपस्तेजसि लीयन्ते' इत्यादिभिश्च विरोधः । उत्तरोत्तरभूतानां पूर्वपूर्वभूतप्रसूतत्वाभावात् । अतः तन्मात्राणां युगपदुत्पत्तिः कल्पकाभावात् सर्गपळयपरानेकवाक्यविरोधाच्चानुपपन्ना । छान्दोग्ये च, 'तत् तेजोऽसृजत-तत् तेज ऐक्षत-तदपोसृजत-ता अन्नमसृजन्त' इति तेजोबन्नवाचि- शब्दानां तन्मात्रपरत्वे स्वारस्यभङ्गः, तस्मिन् सोढेऽपि युगपदुत्पतिविरोधश्चावर्जनीयः । - . --