पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२८८

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् " -- - 'आकाशाद्वायुः ' इत्यादिवाक्यानां केचिदेवं निर्वाहमिच्छन्ति --- भूतादेराकाशमाकाशाद्वायु:' आत्मन आकाशः संभूतः, आकाशाद्वायुः' इत्यादिवाक्येषु आकाशादयः शब्दा अविशेषेण स्थूलसूक्ष्मावस्थतत्तद्भूतवाचिनः । अतोऽर्थवैरूप्यादिदोषा न स्युः । तत्रार्थसामर्थ्यात् सूक्ष्मांशस्यैव स्थूलभूतमनन्तरं प्रति कारणत्वं सिद्धयेत्-इति । इदानीमपि तन्मात्राणां युगपदुत्पत्ति: दूरतः परित्यक्ता । किञ्च- 'आकाशाद्वायु' रित्यादीनि वाक्यानि मिथुनात् मिथुनोत्पत्तिवचनानि । पञ्चम्यन्तानां प्रथमान्तानाञ्च पदानामुभयवाचित्वात् । एवं सति मातापित्रोरिव पुत्रदुहित्रोरिव च स्थूलसूक्ष्मभूतयोर्न परस्परकार्यकारणभावः सिद्धयेत् । पुलदुहितरौ प्रति पित्रोरन्यतरस्येव स्थूलाकाशस्यापि स्पर्शमात्र वायुमपि प्रति कारणत्वं स्यात् । सूक्ष्मस्येव स्थूलाकाशस्यापि प्रकृत्युत्पन्नस्य स्थूलं सूक्ष्मञ्च वायुं प्रति हेतुतयाऽन्वयस्य अविशेषण पञ्चमीप्रतिपन्नत्वात् स्थूलाकाशम्य स्पर्शमात्रस्थूलवायुजननायोग्यत्वे प्रमाणान्तराभावात्। शास्त्रैकसमधिगम्यो ह्ययमर्थो यथाशब्दं स्वीकार्यः । अतः अर्थसामर्थ्यादभिमतव्यवस्था दुर्लभा । तथा, 'वायुराकाशे लीयते । इत्युक्ते स्पर्शतन्मात्रवाय्वोः स्थूलाकाशेऽपि लयः प्रतिपादितः स्यात् । अतः सर्वं परमतं व्याकुलं स्यात् । तस्मात् प्रमाणान्तरागोचरे जगत्सर्गप्रळयादौ शब्दानां स्वरससिद्ध एवार्थः स्वीकार्यः। स्वप्रकरणस्थवाक्यानुगुण्यादुपबृंहणवचनानुगुण्याञ्च प्रसिद्धनामेवाकाशादीनां तन्मात्रव्यवहिता 'सृष्टिरित्यभ्युपगन्तव्यम्। 'तमसो भूतादिः, भूतादेराकाशम् । इत्यादिषु व्यवधानेऽपि कार्यकरणभावनिर्देशदर्शनात । तर्हि, ' अष्टौ प्रकृतयः षोडश विकाराः' इति श्रुतेः का गतिरिति चेत्- वेदोपबृंहणनिपुणतरपरमर्पिसंदर्शितैव गतिः । नास्माभिः तद्विरुद्धनिर्वहणेऽभिनि- 1. सृष्टिरभ्युपगन्तव्या । नात्माभिरिति । अत्र अष्टो प्रकृतय इति प्रकृतिमहदहङ्कारतन्मात्राणामेव विवक्षा ; षोडश विकारा इति पञ्चभूतैकादशेन्द्रिय ग्रहणम् । एवेव चतुर्विंशतितत्त्वताव्यवहारस्य बहुग्रन्थसंपतिपन्नत्वात् । कथमाकाशादीनां चतुणीं प्रकृतित्वेनापरिगणनमिति चेत् ~~ विवक्षितस्वार्थस्य तत्राभावात् । नात्र प्रकृतित्व कार्यद्रव्यारम्भकत्वमात्रम् ; किंतु पाञ्चभौतिकत्वस्य शरीरे प्रसिद्धतया 1