पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीश्रुतप्रकाशिकाचार्यविरचितभाण्ययुक्त! [सुबालोप. १. वेष्टव्यम् । भगवता वेदव्यासेन हि मोक्षधर्मे याज्ञवल्क्यजनकसंवादे षोडश विकाराः प्रत्यक्षश्रुत्यन्तराविरोधेन दर्शिताः -- अष्टौ प्रकृतयः प्रोक्ताः विकाराश्चैव षोडश । तथा व्यक्तानि सप्तैव प्राहुरध्यात्मचिन्तकाः ।। अव्यक्तञ्च महांश्चैव तथाऽहंकार एव च । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।। एताः प्रकृतयस्त्वष्टौ विकारानपि मे श्रुणु । श्रोत्रं त्वक् चैव चक्षुश्च जिह्वा प्राणञ्च पञ्चमम् ।। वाक् च हस्तौ च पादौ च पायुर्मेढं तथैव च । शब्दस्पशौं च रूपञ्च रसो गन्धस्तथैव च ॥ एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु । दशेन्द्रियाण्यथैतानि सविशेषाणि मैथिल ।। मनः षोडशमित्याहुः अध्यात्मगतिचिन्तका: "इति। अत्र ज्ञानप्रवृत्तिकारणानीन्द्रियाणि तद्विषयाः शब्दादयश्च तत्त्वान्तरानारम्भकत्वात् षोडश विकारा इति प्रतिपादितम् । एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु' इति वैयधिकरण्यनिर्देशात् विशेषशब्दः शब्दस्पर्शादिगुणमात्रपरः । 'शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ' (वि.पु.१.२.) इत्यत्र तदभावात् विशेषशब्दो गुणिपरः । पटस्य शुक्लः, पटः शुक्कः इत्यादिषु शुक्लादिशब्दानामिव विशेष- पञ्चभूतगतशब्दादिसर्वगुणाश्रयतया इन्द्रियाश्रयतया च तस्योपलभ्यमानत्वाच्च विकारभूते शरीरे उपलभ्यामानानि तत्त्वानि विकारा इत्युच्यन्ते, अन्यानि तु प्रकृतिमहदहङ्कारतन्मात्राणि तथानुपलभ्यमानत्वात् उपलभ्यमानतत्त्वप्रकृतित्वाच्च प्रकृतय इत्युच्यन्ते इति तात्पर्यवर्णनसंभवात् । अत: सांख्यामिमतरीतिमुपेक्ष्य भगवत्पराशरोपबृंहितप्रकृतश्रुत्यनुरोधेन तत्त्वोत्पत्तिवादस्य न, 'अष्टौ प्रकृतयः'इति श्रुत्यादिविरोध इत्यादि वर्णनं यद्यपि संभवति-अथाप्यस्मिन्नर्थे उपपन्नेऽपि नास्माभिरभिनिवेशः कार्यः, व्यासयमादिवचनपर्यालोचने अष्टौ प्रकृतय इत्यस्याभिप्रायान्तरावगमादिति भावः । तथा व्यक्तानीति युक्तः पाठः ; न तु अथाव्यक्तानीति । वस्तुतः, आसांतु सप्त व्यक्तानीत्येव संप्रतितनः पाठः (मोक्ष. ३१५.)।