पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

26 कालस्त्वाभाव्यकर्माद्यखिलपरिकरं श्रीनिधे ! ब्रह्मशब्द्यं विश्वोपादानतायै प्रकृतिपुरुषसंश्लेषणात् त्र्यंशकं त्वाम् । तारेणाङ्गुष्ठमात्रं हृदि परपुरुषं सत्त्वदं प्राग् विचिन्त्य स्वात्मस्थं वीक्ष्य पाशक्षतिसहितसुखैश्वर्यभाक् स्यात् प्रपन्नः ॥ १३८

देवात्मन् सत्त्वधामन् ! पुरुष ! चिदचितोरन्तरात्मन् ! महीश ! प्राह ब्रह्मादिधातर्वरद ! च तमसःपारवर्तिन् ! अनन्त ! । तारार्थाऽऽदित्यवर्णाखिलशरण ! सहस्राक्षिशीर्षादिक ! त्वां मध्येनीरञ्च मध्येभुवनमिह गिरित्रेति सप्ताचलेशम् ॥ १३९

रुद्रेशेशानशब्दाः शिव इति समभिव्याहृतेस्त्वत्परास्ते माहैश्वर्यञ्च यद्वत् हर इति तदनीशेति जीवप्रकृत्योः । नैवोमेशोक्तिलिङ्गं क्वचिदथ गिरिशन्तेति संबोध्यसे तं तन्वन् संहारसर्वेशनकर ! भगवांस्त्वं हि लक्ष्मीश ! भव्य ! ॥ १४०

अथर्वशिखोपनिषत् मन्त्रो ध्यानञ्च कर्ता विषय इति चतुर्ष्वेषु बोद्धव्यरीतिं पृष्टोऽथर्वा शिखायाम् -- प्रणव इह परब्रह्म भाव्यः, चतस्रः । मात्राः नानास्तवार्हाः प्रतिनियतलसन्नामवर्णाश्च, देवाः ब्रह्मा विष्णुश्च रुद्रः पुरुष इति वदन् श्रीश ! मेने परं त्वाम् ।। १४१

हस्वो दीर्घः प्लुतोऽसौ प्लुतयुतमविभज्येर्यतेऽन्वर्थनामा- न्यस्यानेकानि जाग्रत्स्वपनदृढभवत्सुप्तिमोक्षाश्च मात्राः । तत्तत्कृद्देवकत्वात् श्रितरम ! , भवतो ध्यानमिष्टं तु विष्णुः ध्याता रुद्रो हृदीक्ष्यः शिवकर! सकलैश्वर्यकृत् कारणं त्वम् ।। १४२

अथर्वशिर उपनिषत् सार्वात्म्यं रुद्रदृष्टं तदनुभवबलात् तस्य देवैः स्तुतिञ्च त्वद्वाच्योङ्कारनामान्यभिहितविवृतिं भस्मसंस्पर्शयुक्तम् । .