पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् ! शब्दस्यापि गुणपरत्वं गुणिपरत्वञ्च युक्तमेवेति प्रयोगवशादवगम्यते । नन्वेवं सति चतुर्विशत्याधिक्यं स्यादिति चेन्न । द्रव्यरूपाणां कार्यकारणाचित्तत्त्वानामव्यक्तादीनां चतुर्विशतिसंख्यानतिरेकात् । 'अष्टौ प्रकृतयः षोडश विकाराः ' इत्यादिवाक्यस्य तु द्रव्यैक्यपरत्वनियमो नास्तीति उपबृंहणवशादवगम्यते । अर्थान्तराणामनुपपन्नत्वाच्च । आकाशादीनामपि प्रकृतित्वे, ‘अष्टौ प्रकृतय ' इति श्रुतं प्रकृतीनामष्टसंख्याकत्वं न घटन इति चेन्न-तन्मात्राणां भूतेष्वन्तर्भागभिप्रायेणाष्टसंख्यानिर्देशोपपत्तेः । तथा वसिष्ठकराळजनक संवादेऽपि भूततन्मात्रव्यतिरिक्तानां शब्दस्पर्शादीनां विशेषशब्दोक्तानां षोडशविकारान्तर्भावः प्रतिपाद्यते- अव्यक्तमाहुः प्रकृति परां प्रकृतिवादिनः । तस्मान्महत् समुत्पन्नं द्वितीयं राजसत्तम ॥ अहङ्कारस्तु महतः तृतीय इति नः श्रुतम् । पञ्च भूतान्यहंकारादाहुः सांख्यनिदर्शिनः ॥ एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश । पञ्चैव च विशेषाश्च पञ्च पञ्चेन्द्रियाणि तु ॥ इति अत्र पञ्चानां भूतानां प्रकृतिषु परिगणनात् केवलविकारत्वमपास्तम् । विशेषशब्दस्य तन्मात्रपरत्वं तन्मात्राणां केवलविकारत्वञ्च न कस्यापीष्टम् । अतो विशेषशब्दः शब्दस्पर्शादिगुणमात्रपर इति परिशेषात् सामर्थ्याच्च सिद्धम् । 'पञ्च भूतानीति भूतशब्दः तन्मात्रपरः ; विशेषशब्द आकाशादिपरः' इति चेन्न । अपवादाभावेऽपि भूतशब्दस्य क्लिष्टार्थ कल्पनाऽयोगात् । विशेषशब्दो गुणेष्वक्लिष्टः । न केवलमुपबृंहणवचनस्थ भूतशब्दस्यैव, श्रुतिवाक्यस्थाकाशादिशब्दानामपि तन्मात्रपरत्वे स्वारस्याभावः स्फुटतरः । एवमुपनिषद्वाक्यानां परमर्षिवचसाच्चामुख्यार्थाश्रवणमर्वाचीनसांख्यदुर्निबन्धनम् ; स्वरसवचनान्तरयुक्त्यन्तराभावात् । समीचीनं सांख्यमतं तु श्रुतिस्वारस्यानुगुणमिति अत्रैव दर्शितम् , ' आहुः सांख्यनिदर्शन (१) ' मिति । 1. द्वितीयमिति नः श्रुतम् . 2. निदर्शनम् . (भा.शां. ३११) .