पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप. १. तथा यमस्मृतौ विषयेन्द्रियाण्येव षोडश विकारा इत्युक्तम् पञ्चविंशतितत्त्वज्ञो यत्रतत्राश्रमे रतः। प्रकृतिज्ञो विकारज्ञः स दुःखात् परिमुच्यते ॥ मनो बुद्धिरहंकारः खानिलाग्निजलानि भूः । एताः प्रकृतयस्त्वष्टौ विकाराः षोडशापरे ॥ श्रोत्राक्षिरसनाघ्राणं त्वक् च संकल्प एव च । शब्दरूपरसस्पर्शगन्धवाक्पाणिपायवः ।। उपस्थयादाविति च विकार: षोडश स्मृताः । चतुर्विंशकमित्येतत् ज्ञानमाहुर्मनीषिणः ।। पञ्चविंशकमव्यक्तं षड्रिंशः पुरुषोत्तमः । एतत् ज्ञात्वा तु मुच्यन्ते यतयः शान्तबुद्धयः ।। अशब्दमरसस्पर्शं रूपगन्धविवर्जितम् । निर्दुःख सुसुख शुद्धं तद्विष्णोः परमं पदम् ।। अजं निरञ्जनं शान्तमव्यक्तं ज्ञानमक्षरम् । अनादिनिधनं ब्रह्म तद्विष्णोः परमं पदम् ॥" इति । अत्र प्रकृतिषु परिगणनात् प्रथमोपादानाच्च प्रधानतत्त्वमव्यक्ततया मन इत्युक्तम् । संकल्पशब्देन तत्कारणं मनो विवक्षितम् । ज्ञानं ज्ञातव्यम् । प्रत्यगात्मनः पञ्चविंशकत्वेनोक्तत्वात् परिशेषाच्च चक्षुराधगम्यमात्मतत्त्वमव्यक्तशब्दोक्तम् । ‘विकाराः षोडश स्मृताः ' इति षोडशविकारशब्दोपादानात् एताः प्रकृतयस्त्वष्टौ' इत्युक्तत्वाचास्य स्मृतिवचनस्य, 'अष्टौ प्रकृतयः षोडश विकाराः' इति श्रुतिमूलत्वमवगम्यते । अतस्तस्याः श्रुतेरयमर्थं इति यमेन निर्णीयत इति स्फुटम् । ईदृशस्मृत्युपबृंहितया अनया श्रुत्या विषयेन्द्रियाण्येव षोडश विकारत्वेन विवक्षिानीति भगवतो भाष्यकारस्य हृदयमिति भगवद्गीतामा ये स्पष्टमवगम्यते- 'महाभूतान्यहकारो बुद्धिरव्यक्तमेव चे' ति क्षेत्रारम्भकद्रव्याणि । पृथिव्यप्तेजोवाय्वाकाशानि महाभूतानि । अहङ्कारो भूतादिः । बुद्धिर्महान् । अव्यक्तं प्रकृतिः ।