पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

, एवम् , . सुबालोपनिषत् १९९ 'इन्द्रियाणि दशैकश्च पञ्च चेन्द्रियगोचगः । इति क्षेत्राश्रितानि तत्त्वानि। श्रोत्रत्वक्चक्षुर्जिह्वाघाणानि पञ्च ज्ञानेन्द्रियाशि, वाक्पाणिपादपायूपस्थाः पञ्च कर्मेन्द्रियाणि दश; एकमिति मनः । इन्द्रियगोचराश्च पञ्च शब्दस्पर्शरूपरसगन्धाः इति । अत्र क्षेत्रारम्भकद्रव्याणीत्यारम्भकद्रव्यपदेन, अष्टौ प्रकृतय ' इति प्रकृतिशब्दो व्याख्यातः । क्षेत्रा- श्रितानि तत्वानि ' इति विषयेन्द्रियाणां षोडशानां साधारणाकार उक्तः । एवं 'अष्टौ प्रकृतयः षोडश विकाराः' इति वाक्येऽपि विषयेन्द्रियाण्येव श्रुत्यन्तराविरोधेन षोडशविकारत्वेन विवक्षितानीति व्यासादीनां परमर्षीणां भाष्यकारस्य च हृदयं ?] स्फुटतरमवगम्यते । अतः आकाशाद्वायुरित्यादीनां यथोक्त एवार्थः । ननु संभवति द्रव्यपरतथैव, 'अष्टौ प्रकृतयः षोडश विकाराः' इत्यस्य निर्वाहे विकारपदेन गुणमात्रग्रहणं न युक्तम् । कथं निर्वाह इति चेत्-नात्र प्रकृतिशब्दः तत्त्वान्तरोपादानत्वमात्रेण प्रयुक्तः। किंतु समर्थितत्त्वाभिप्रायेण । विकारपदश्च व्यष्टयन्तर्गतवस्तुपरम् । एवं हि व्यष्टि प्रलय- वर्णनानन्तरं समष्टिप्रलयवर्णनारम्भे भगवान् पराशर आह (६.४.३०.), ' एवं सप्त महाबुद्धे क्रमात प्रकृतयः स्मृताः । प्रत्याहारे तु ताः सर्वाः प्रविशन्ति परस्परम् ' इति । आवरणानि च न तन्मात्राणि, किन्तु भूतानीति तत (१.२.) एव सुबोधम् । अतः अण्डकटाहरूपपृथिवीसहिताः आवरणभूताः वार्यादयः (बि-१२.) व्यष्टिप्रपञ्चहेतुत्वात् साक्षादुपभोगानर्हत्वात् समष्टयः प्रकृतयः । व्यष्ठयन्तर्गतानि तु इन्द्रियाणि च भूतानि च विकार। | भूतानामपि इन्द्रियविषयत्वेऽपि तत्तद्गुणविशिष्टतयैवेन्द्रियग्राह्यत्वात् , इन्द्रियव्यवस्थापकत्वरूपमहिमशालित्वाच्च गुणानाम् , तेषामेव प्रधान्येन विषयतया निर्देश: सर्वदर्शनसुप्रसिद्ध इति क्वचित् गुणपुरस्कारेण निर्देशेऽपि गुणिनामुपेक्षणे न तात्पर्यम् । एवञ्च, 'महाभूतान्यहङ्कारः' इति गीतादिकं सुस्थम् । एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु' इति शब्दादीनां भारतादौ)निर्देशस्थलेऽपि महाभूतेष्वति द्रव्याणां विशेषणतया निर्देशात् द्रव्यविशिष्टगुणानामेव विकारत्वं गम्यते । गुणविशिष्टद्रव्यमिति द्रव्यवर्तिगुण इति व नात्यन्तभिन्नम् इत्याशङ्कायाम् , निर्वाहप्रकारो यः कश्चिदस्तु । आकाशाद् वायुरित्यादेरर्थस्तु यथोक्त एव, न तवान्यथाभावः । अस्माभिस्तु गुणानामपि चतुर्विशतितत्त्वमध्ये गणनं युक्तमित्ति एवमुक्तम् । तथाहि तत्त्वसागरसंहितावचनम् (श्रीरहस्यत्रयसारोद्धृतम्) 'भूतानि च कवर्गेण चवर्गणेन्द्रियाणि च । टवर्गेण तवर्गेण ज्ञानगन्धादयस्तथा' इति ज्ञानेन्द्रियैः सह गन्धादीनामेव चतुर्विशतिमध्ये निवेशकम् , स्वारस्यात् । (व्याख्यातारस्तु गन्धतन्मात्रादि ग्राहयन्ति) । तथाच श्रीमुखसूक्तभाष्ये श्रीषट्सहस्रिकायामपि, (८.८.५.), "प्रकृतिमहदहङ्कारैकादशेन्द्रिय- पृथिव्यादिभूतशब्दादिविषयरूपचतुर्विंशतितत्त्वविलक्षण इति इत्याशयेन निगमयति मत आकाशादिति । अत्र तत्त्वमुक्ताकलापश्लोकः (१.१५) तत्र सर्वार्थसिद्धिश्चानुसंधेयो तत्त्वेष्वाथर्वणेऽष्टौ प्रकृतय उदिताः षोडशान्ये विकाराः निष्कर्षेदम्परेऽस्मिन् वचसि तदितरत सर्वमावर्जनीयम् । . - 10